________________
त्रिषष्टिशलाकापुरुषचरिते ।।१२९॥
सप्तमं पर्व पञ्चमः सर्गः रामलक्ष्मणरावण
चरितम् ।
ययौ च सा तं न्यग्रोधं ददृशे लक्ष्मणेन च । प्रसुप्तजानकीरामयामिकेन प्रजाग्रता ॥ १७६ ।। इदं च दध्यौ सौमित्रिः किमियं वनदेवता ? । अधिष्ठात्री वटतरोरस्य वा ? काऽपि यक्षिणी ? ।। १७७ ॥2 एवं चिन्तयतस्तस्य साऽध्यारोहद्वद्रुमम् । करिष्यति किषेति लक्ष्मणोऽप्यारुरोह तम् ।। १७८ ।। सा प्रोचे प्राञ्जलिर्भूत्वा मातरो वनदेवताः! । दिग्देव्यो ! व्योमदेव्यश्च सर्वाः शृणुत मद्वचः ॥ १७९ ।। नाऽभूदिह भवे तावन्मम भर्ता स लक्ष्मणः । भूयाद् भवान्तरे तर्हि भक्तिस्तत्र ममाऽस्ति चेत् ।। १८० ॥ इत्युदित्वा कण्ठपाशं विधायोत्तरवाससा । बद्ध्वा च वटशाखायां द्राक् साऽऽत्मानमलम्बयत् ।।१८१ ।। भद्रे ! मा साहसं कार्बर्लक्ष्मणोऽहमिति ब्रुवन् । लक्ष्मणोऽपास्य तत्पाशं तामादायोत्ततार च ।। १८२ ॥ प्रबुद्धयोर्निशाशेषे लक्ष्मणो रामसीतयोः । शशंस वनमालाया वृत्तान्तं तमशेषतः ।। १८३ ।। ह्रियाऽवगुण्ठितमुखी वनमालाऽपि तत्क्षणम् । जानकीरामचरणारविन्देभ्यो नमोऽकरोत् ।।१८४ ।। इतोऽपि च तदेन्द्राणी महीधरनृपप्रिया । वनमालामपश्यन्ती पूच्चक्रे करुणस्वरम् ।। १८५ ।। वनमालान्वेषणाय निर्ययौ च महीधरः । इतस्ततः परिभ्राम्यंस्तत्रस्थां च ददर्श ताम् ।। १८६ ॥ हत हत तान् कुमारीतस्करानिति भाषिषु । उदस्त्रेषु च सैन्येषूत्तस्थौ रामानुजः क्रुधा ।। १८७ ।। धनुष्यारोपयामास स ज्यां भाल इव ध्रुवम् । अकारयच्च टङ्कारं वैर्यहङ्कारहारकम् ।। १८८ ।। चुक्षुभुस्तत्रसुः पेतुस्तद्धनुर्ध्वनिना परे । महीधरः पुरः स्थित्वा सौमित्रिं स्वयमैक्षत ॥ १८९ ॥ उपलक्ष्य ततोऽवादीज्ज्यामुत्तारय धन्वनः । सौमित्रिं मत्सुतापुण्यैरिष्यमाणस्त्वमागतः ।।१९० ॥
वनमालालक्ष्मणयोस्समागमः ।
।।१२९ ॥