________________
त्रिषष्टिशलाकापुरुषचरिते ॥१२८॥
सप्तमं पर्व पञ्चमः सर्गः रामलक्ष्मणरावणचरितम् ।
ततः स विप्रो द्रविणैः कृतार्थीकृत्य भूरिभिः । राघवेण विसृष्टः सन् स्वग्राममगमत् पुनः ।। १६१ ।। प्रबुद्धो ब्राह्मणः सोऽपि दत्वा दानं यथारुचि । नन्दावतंससूरीणामन्तिके व्रतमग्रहीत् ।। १६२ ।। अथ प्रावृष्यतीतायां यियासुं प्रेक्ष्य राघवम् । गोकर्णयक्षो विनयादेवमूचे कृताञ्जलिः ।। १६३ ॥ यद्यतो यास्यसि स्वामिस्तत्प्रसीद क्षमस्व मे । यद् भक्तिस्खलितं किञ्चिन्मनागप्यभवत्त्वयि ।। १६४ ।। तवाऽनुरूपां कः पूजां कर्तुमीशो महाभुज! । इत्युक्त्वाऽदत्त रामाय हारं नाना स्वयम्प्रभम् ।। १६५ ।। सौमित्रये च ताडङ्के दिव्यरत्नविनिर्मिते । चूडामणि च सीतायै वीणां चेप्सितनादिनीम् ।। १६६ ॥ रामोऽनुमान्य तं यक्ष प्रतस्थे स्वेच्छया ततः । तां पुरीमुपसअहे सोऽपि यक्षः स्वयं कृताम् ।। १६७ ।। ते क्रामन्तः प्रतिदिनं जानकीरामलक्ष्मणाः । त्यक्त्वाऽरण्यानि विजयपुरं सन्ध्याक्षणे ययुः ।। १६८ ॥ तस्मिश्च बहिरुद्याने मरुद्दिशि महीयसः । तले न्यग्रोधवृक्षस्य तेऽवात्सुर्वेश्मसन्निभे ।। १६९ ।। पुरे च तस्मिन्नभवद्राजा नाम्ना महीधरः । इन्द्राणी नाम तत्पत्नी वनमालेति तत्सुता ।। १७० ।। वनमाला च बाल्येऽपि सौमित्रेर्गुणसम्पदम् । रूपं चाऽऽकर्ण्य तं मुक्त्वा नाऽन्यं वरमियेष सा ।। १७१ ।। तदा प्रव्रजितं श्रुत्वा नृपं दशरथं तथा । निर्गतौ रामसौमित्री विषण्णोऽभून्महीधरः ।। १७२ ।। अदत्त चन्द्रनगरे वृषभक्ष्मापजन्मने । नाम्ना सुरेन्द्ररूपाय वनमालां महीधरः ।। १७३ ॥ वनमालाऽपि तच्छ्रुत्वा मरणे कृतनिश्चया । तस्यां निश्येकिका दैवात्तदुद्यानमुपाययौ ।। १७४ ।। प्रविश्य तत्राऽऽयतनेऽपूजयद्वनदेवताम् । जन्मान्तरेऽपि सौमित्रिः पतिर्मेऽस्त्वित्युवाच च ।। १७५ ।।
यक्षकृतनगर्या वर्षायै वासः ।
क्रमेण विजय
पुरोद्याने
आगमनम् ।
॥ १२८ ।।
१ वृषभनृपस्य पुत्राय ।