________________
त्रिषष्टिशलाका
पुरुषचरिते 1192011
तत्रैकां मानुषीरूपां चारुनेपथ्यवाससम् । सोऽपृच्छद्यक्षिणीं दृष्ट्वा कस्येयं नूतना पुरी ? || १४६ ॥ सोचे गोकर्णयक्षेण कृतेयं नूतना पुरी । नाम्ना रामपुरी रामसीतासौमित्रिहेतवे ।। १४७ ॥ दीनादिभ्यो ददात्यर्थमत्र रामो दयानिधिः । सर्वः कृतार्थीभूतोऽत्र यो यो दुःस्थः समाययौ ।। १४८ ॥ त्यक्त्वा सोऽपि समिद्भारं पतित्वा तत्पदाब्जयोः । ऊचे मया कथं रामो द्रष्टव्यः ? शंस मेऽनघे ! ॥ १४९ ॥ साऽप्यवादीदत्र पुर्यामस्ति द्वारचतुष्टयम् । नित्यं च रक्ष्यते यक्षैः प्रवेशोऽमुत्र दुर्लभः ।। १५० ।। पूर्वद्वारेऽत्र यच्चैत्यं तद्वन्दित्वा यथाविधि । श्रावकीभूय चेद्यासि प्रवेशं लभसे तदा ।। १५१ ।। तद्वरा कपिलोऽर्थार्थी साधूनामन्तिके ययौ । अभ्यवन्दत तान् साधून् धर्मं तेभ्योऽशृणोच्च सः ।। १५२ ।। ततः स लघुकर्मत्वाद्विशुद्धः श्रावकोऽभवत् । गत्वौको धर्ममाख्याय भार्यां च श्राविकां व्यधात् ।। १५३ ।। आजन्म दौस्थ्यदग्धौ तौ रामादर्थयितुं धनम् । उपेयतू रामपुरीं तच्च चैत्यं प्रणेमतुः ।। १५४ ॥ राजवेश्म प्रविश्याऽथ मैथिलीरामलक्ष्मणान् । उपलक्ष्य बिभायोच्चैर्दत्ताक्रोशान् द्विजः स्मरन् ।। १५५ ।। तं नष्टुमनसं सानुक्रोशः सौमित्रिरब्रवीत् । मा भैषीर्भो द्विजाऽर्थी चेदेह्यर्थं प्रार्थयस्व तत् ।। १५६ ॥ ततोऽपशङ्कः कपिलो गत्वा रामाय चाऽऽशिषम् । दत्वोपाविशदग्रे च गुह्यकैरर्पितासने ।। १५७ । कुतस्त्वमागतोऽसीति पृष्ये रामेण सोऽवदत् । किं मां न वेत्सि तं विप्रमरुणग्रामवासिनम् ? ॥ १५८ ॥ यूयं येनाऽतिथीभूता अपि दुर्वचसा मया । आक्रुष्टा मोचितोऽस्म्यस्माद्युष्माभिश्च कृपापरैः ।। १५९ ।। सुशर्मा ब्राह्मणी साऽपि प्राग्वृत्ताख्यानपूर्वकम् । गत्वोपैसीतं दीनास्या प्रदत्ताशीरुपाविशत् ।। १६० ।। १ दुःखी । २ धनार्थी । ३ गृहम् । ४ दयासहितः । ५ द्विजेति सम्बोधनम् । ६ सीतायाः समीपम् ।
麗麗地圖管
सप्तमं पर्व पञ्चमः
सर्गः
रामलक्ष्मणरावणचरितम् ।
कपिल
ब्राह्मणाधिकारः ।
।। १२७ ।।