________________
| सप्तमं पर्व पञ्चमः
त्रिषष्टिशलाकापुरुषचरिते ॥१२६॥
सर्गः
रामलक्ष्मणरावणचरितम् ।
ते गच्छन्तः क्रमात्प्रापुरण्यमपरं महत् । कज्जलश्यामजलदः कालश्च समुपाययौ ।। १३२ ।। वर्षत्यब्दे च काकुत्स्थस्तस्थौ वटतरोरधः । वर्षाकालं वटेऽत्रैव नयाम इति चाऽवदत् ।। १३३ ।। आकर्ण्य तद्वचो भीतस्तन्यग्रोधाधिदैवतम् । इभकर्णाभिधो यक्षो गोकर्ण स्वप्रभुं ययौ ।। १३४ ।। तं प्रणम्येत्यभाषिष्ट स्वामिन्नुद्वासितस्ततः । कैश्चिद् दुःसहतेजोभिर्निजावासाद्वटादहम् ।। १३५ ॥ तत्कुरुष्व परित्राणमत्राणस्य मम प्रभो ! । ते हि स्थास्यन्ति सकलां प्रावृषं मद्वद्रुमे ।। १३६ ।। गोकर्णोऽप्यवधि ज्ञात्वाऽचख्याविति विचक्षणः । अर्ध्यावेतौ गृहायातावष्टमौ रामशाङ्गिणौ ।। १३७ ।। इत्युक्त्वा निशि तत्रैत्य नवयोजनविस्तृताम् । द्वादशयोजनायामां धनधान्यादिपूरिताम् ।। १३८ ।। उत्तुङ्गवप्रप्रासादां भाण्डपूर्णापणावलिम् । पुरी रामपुरी नामाऽकृत रामाय सोऽमरः ।। १३९ ।।
॥युग्मम् ।। प्रातर्मङ्गलशब्देन प्रबुद्धो राम ऐक्षत ।तं वीणाधारिणं यक्ष महर्द्धिनगरी च ताम् ।। १४० ॥ सोऽवोचद्विस्मितं रामं स्वामी त्वमतिथिश्च मे । गोकर्णो नाम यक्षोऽहमकार्ष त्वत्कृते पुरीम् ।। १४१ ॥ मया सपरिवारेण सेव्यमानो दिवानिशम् । इह तिष्ठ सुखं स्वामिन् ! यथाकालं यथारुचि ॥१४२ ।। इति तेनाऽर्थितो रामो यक्षपुम्मिर्निषेवितः । अवतस्थे सुखं तत्र सीतासौमित्रिसंयुतः ।। १४३ ।। इतश्च विप्रः कपिलः समिदादिकृतेऽन्यदा । भ्रमंस्तस्मिन्महारण्ये पशुपाणिः समाययौ ।। १४४ ।। स ददर्श पुरी तां च दध्यौ चेतसि विस्मयात् । मायेयमिन्द्रजालं वा गान्धर्वमथवा पुरम् ? ||१४५ ।।
म्लेच्छाद्
वालि
खिल्य
मोचनम्
क्रमेण | महारण्ये वासः ।
॥१२६ ॥
१ तद्वटस्याधिदैवतं देवता।