________________
त्रिषष्टिशलाकापुरुषचरिते ॥१२५॥
सप्तमं पर्व | पञ्चमः सर्गः रामलक्ष्मणरावणचरितम् ।
भ्रमन्नागामिमां पल्लीं काक इत्याख्ययाऽन्यया । इह ख्यातः क्रमात्पल्लीपतित्वमिदमासदम् ॥ ११७ ॥ इह स्थितश्च लुण्टाकैर्गुण्टयामि पुरादिकम् । आनयामि स्वयं गत्वा बन्दे धृत्वा नृपानपि ॥ ११८॥ वश्योऽस्मि व्यन्तर इव तव स्वामिन् समादिशः । किङ्करः किं करोम्येष सहस्वाऽविनयं मम ।। ११९ ।। वालिखिल्यं विमुञ्चेति रामेणोक्तः किरातराट् । तं मुमोच नमश्चक्रे वालिखिल्योऽपि राघवम् ।। १२० ॥ रामाज्ञया च काकेन स निन्ये कूबरं पुनः । कल्याणमालां पुंवेषामपश्यच्च सुतां निजाम् ।। १२१ ।। रामलक्ष्मणवृत्तान्तं मिथोऽकथयतां च तौ । कल्याणमालिकावालिखिल्यावखिलमप्यथ ।। १२२ ।। काकोऽपि स्वां ययौ पल्लिं ततो रामोऽपि निर्गतः । विन्ध्याटवीमतिक्रम्य प्राप तापी महानदीम् ।। १२३ ।। । तापीमुत्तीर्य च क्रामस्तद्देशप्रान्तवर्तिनम् । अरुणग्रामनामानं रामो ग्राममथाऽऽसदत् ।। १२४ ।। पिपासितायां सीतायां तत्र रामः सलक्ष्मणः । गृहे ययौ कोपनस्य कपिलस्याऽग्निहोत्रिणः ।। १२५ ।। ब्राह्मणी च सुशर्माख्या तेभ्योऽदात् पृथगासनम् । स्वयं च पाययामास सलिलं स्वादु शीतलम् ।। १२६ ॥ आगात्तदा च कपिलः पिशाच इव दारुणः । निरीक्ष्य चोपविष्टस्तान रुष्टोऽभाषिष्ट गेहिनीम् ।।१२७ ।। मलिनानां किमेतेषां प्रवेशो मम वेश्मनि । पापीयसि ! त्वया दत्तोऽग्निहोत्रमशुचीकृतम् ? ।। १२८ ।। एवमाक्रोशिनं विप्र क्रुरं रामानुजः क्रुधा । करीवारमतोद्धृत्य परिभ्रमयितुं दिवि ॥ १२९ ॥ रामोऽप्युवाच को नाम कोपोऽस्मिन् कीटमात्रके ? । द्विजेब्रुवं विब्रुवन्तमप्यमुं मुञ्च मानद ! ।।१३० ।। रामाज्ञया च सौमित्रिस्तं मुमोच शनैर्द्विजम् । ससीतालक्ष्मणो रामो निर्जगाम च तद्गृहात् ।। १३१ ।।
म्लेच्छाद्
वालि खिल्यमोचनम् ।
॥१२५ ॥
१ कोपवतः ।२ अघमब्राह्मणम् ।