________________
त्रिषष्टिशलाकापुरुषचरिते ॥१२४॥
सप्तमं पर्व पञ्चमः सर्गः रामलक्ष्मणरावणचरितम् ।
तत्राऽऽदौ दक्षिणदिशि कण्टकिट्ठस्थितो द्विकः । ररास विरसं क्षीरदुस्थोऽन्यो मधुरं पुनः ।। १०२ ॥ न विषादो न वा हर्षोऽभूद्रामस्य तथाऽपि हि । शकुनं चाऽशकुनं च गणयन्ति हि दुर्बलाः ॥ १०३ ।। गच्छन् ददर्श चाऽगच्छन्म्लेच्छसैन्यमुदायुधम् । असङ्ख्येभरथाश्वीयं देशघाताय निर्गतम् ।। १०४ ॥ युवा सेनापतिस्तत्र दृष्ट्वा सीतां स्मरातुरः । स्वच्छन्दवृत्तिः स्वान् म्लेच्छानुच्चकैरेवमादिशत् ।। १०५ ॥ अरे रे ! पथिकावेतौ नाशयित्वा विनाश्य वा । एतां वरस्त्रियं हत्वा समानयत मत्कृते ॥१०६ ॥ इत्युक्ताः सह तेनैवाऽधावन्त प्रति राघवम् । प्रहरन्तः शरप्रासप्रायैः प्रहरणैः शितैः ।। १०७ ॥ उवाच लक्ष्मणो रामं तिष्ठाऽऽर्येह सहाऽऽर्यया । अमून् शुन इव म्लेच्छन् यावद्विद्रावयाम्यहम् ॥१०८ ॥ इत्युक्त्वा लक्ष्मणोऽधिज्यं कृत्वा धनुरनादयत् । तन्नादाच्चाऽत्रसम्लेच्छाः सिंहनादादिव द्विपाः ।। १०९ ।। असह्यश्चापनादोऽपि शरमोक्षोऽस्ति दूरतः । इत्थं विमृश्य स म्लेच्छराजो राममुपाययौ ।। ११० ॥ विमुक्तशस्त्रो दीनास्यः स्यन्दनादवतीर्य सः । रामभद्रं नमश्चक्रे क्रुधा सौमित्रिणेक्षितः ।। १११॥ सोऽवोचद्देव ! कौशाम्ब्यां पुर्या वैश्वानरो द्विजः । सावित्री नाम तत्पत्नी रुद्रदेवोऽस्मि तत्सुतः ।। ११२ ॥ आजन्म क्रूरकर्मत्वात्तस्करः पारदारिकः । न तत्किमपि कर्माऽस्ति यत्पापो नाऽऽचराम्यहम् ।। ११३ ॥ अथैकदा खात्रमुख प्राप्तोऽहं राजपुरुषैः । शूलां समारोपयितुं नीतश्च नृपशासनात् ।। ११४ ।। उपशूलं च दीनोऽहमुपशूनमिव च्छगः । दृष्टः श्रावकवणिजा दत्वा दण्डं च मोचितः ।। ११५ ॥ मा कार्षीश्चौरिकां भूय इत्युदीर्य महाताना । विसृष्टो तेन तं देशं त्यक्तवानहम् ॥ ११६ ॥ १ काकः । २ कठोरम् । ३ तीक्ष्णैः । ४ परस्त्रीरतः । ५ प्राणिवधस्थानसमीपम् । ६ अजः ।
कल्याणमालायाः आगमनम्, म्लेच्छराजेन सह युद्धम् ।
॥१२४ ॥