________________
त्रिषष्टिशलाका
पुरुषचरित ॥१२३ ॥
लज्जानतमुखीं तां च निजगादेति राघवः । भद्र ! पुरुषवेषेण स्त्रीभावं निहुषे कुतः ? ॥ ८७ ॥ ऊचेऽथ कूबरपतिः कूबरेऽस्मिन् महापुरे । वालिखिल्यो नाम राजा पृथ्वीनामाऽस्य तु प्रिया ॥ ८८ ॥ आपन्नसत्त्वा सा जज्ञेऽन्येद्युम्लेच्छैर्महाभटैः । अवस्कन्दागतैर्निन्ये वालिखिल्यो नियम्य सः ।। ८९ ॥ पश्चाच्च पृथिवी देवी तनयां मामसूत सा । पुत्रोऽजनीति चाऽघोषि सचिवेन सुबुद्धिना ।। ९० ।। तज्ज्ञापितः पुत्रजन्म प्रभुः सिंहोदरोऽवदत् । तत्र राजाऽस्तु बालोऽयं वालखिल्यागमावधि ।। ९१ ॥ क्रमेण वर्धमानाऽहं मूलात् पुंवेषधारिणी । मातृमन्त्रिजनं मुक्त्वाऽपरैरनुपलक्षिता ॥ ९२ ॥ राज्यं करोमि कल्याणमालाख्या प्रथिता सती । मन्त्रिणां मन्त्रसामर्थ्यात् स्यादलीकेऽपि सत्यता ।। ९३ ।। म्लेच्छानां भूरि यच्छामि द्रविणं पितृमुक्तये । द्रव्यमेते तु गृह्णन्ति मुञ्चन्ति पितरं न तु ॥ ९४ ॥ तत्प्रसीदत मे तातं तेभ्यो मोचयताऽधुना । सिंहोदरान्मोचितः प्राग्वज्रकर्णो नृपो यथा ।। ९५ ।। रामोऽप्युवाच पुंवेषैव स्वराज्यं प्रशासंती । यावद्गत्वा मोचयामो म्लेच्छेभ्यः पितरं तव ।। ९६ ॥ महाप्रसाद इत्यूचे सा स्त्री पुंवेषधारिणी । ऊचे सुबुद्धिमन्त्री तु लक्ष्मणोऽस्या वरोऽस्त्विति ॥ ९७ ॥ राघवोऽप्यब्रवीत्तातादेशाद्देशान्तरं वयम् । यास्यामोऽथ निवृत्तेषु लक्ष्मणः परिणेष्यति ।। ९८ ॥ प्रतिपद्येति काकुत्स्थस्तस्थौ तत्र दिनत्रयम् । निशाशेषे सुप्तजने ससीतालक्ष्मणः ययौ ।। ९९ ।। साऽपि प्रातरपश्यन्ती जानकीरामलक्ष्मणान् । विमनाः स्वं पुरमगाच्चक्रे राज्यं तथैव तु ॥ १०० ॥ प्राप क्रमेण रामोऽपि नर्मदामुत्ततार च । पथिकैर्वार्यमाणोऽपि विन्ध्याटव्यां विवेश च ॥ १०१ ॥
१ युद्धागतैः । २ बद्ध्वा । ३ शासनं कुवती सती तिष्ठेत्यध्याहार्यम् ।
सप्तमं पर्व
पञ्चमः
सर्गः
रामलक्ष्मणरावण
चरितम् ।
कल्याण
मालायाः आगमनम् ।
।। १२३ ।।