________________
त्रिषष्टिशलाका
पुरुषचरिते ॥ १२२ ॥
श्रीधराकुण्डले ते च याचित्वाऽवन्तिपार्थिवात् । अदत्त विद्युदङ्गाय दशाङ्गपुरपार्थिवः ।। ७२ ।। सौमित्रये वज्रकर्णो ददावष्टौ स्वकन्यकाः । सिंहोदरः ससामन्तः पुनः कन्याशतत्रयम् ॥ ७३ ॥ अथोचे लक्ष्मणः कन्याः पार्श्वे वः सन्तु सम्प्रति । भ्राता नो भरतो राज्ये यतः पित्रा निवेशितः ॥ ७४ ॥ समयेऽङ्गीकृतराज्यः परिणेष्यामि वः सुताः । इदानीं तु वयं गत्वा स्थास्यामो मलयाचले ।। ७५ । ओमित्युक्त्वा स्थितौ वज्रकर्णसिंहोदरौ नृपौ । विसृष्टयै रामभद्रेणेयतुर्निजनिजं पुरम् ॥ ७६ ॥ रामस्तत्र निशां नीत्वा ससीतालक्ष्मणः प्रगे । गच्छन् क्रमेण सम्प्राप देशं कमपि निर्जलम् ॥ ७७ ॥ पिपासितायां सीतायां विश्रान्तायां तरोस्तले । रामाज्ञयाऽथ सौमित्रिर्जलमानेतुमभ्यगात् ॥ ७८ ॥ गच्छन् सरो ददर्शेकमनेकाम्भोजमण्डितम् । दूरादानन्दजननं वयस्यमिव वल्लभम् ॥ ७९ ॥ तदा च क्रीडितुं तत्राऽऽगात् कूबरपुराधिभूः । नृपः कल्याणमालाख्यः प्रेक्षाञ्चक्रे च लक्ष्मणम् ॥ ८० ॥ स कामबाणैः सद्योऽपि बिभिदे भिदुरात्मकैः । नत्वा लक्ष्मणमूचे च भव मे भोजनातिथिः ॥ ८१ ॥ विकारं मान्मथं देहलक्षणानि च लक्ष्मणः । निरीक्ष्य दध्यौ नार्येषा पुंवेषा कारणेन तु ॥ ८२ ॥ ध्यात्वेत्युवाच सौमित्रिः सभार्योऽस्ति मम प्रभुः । इतश्चाऽदूरदेशेऽस्मिन् भुञ्जे तेन विना न हि ॥ ८३ ॥ तेन प्रधानपुरुषैर्भद्राकारैः प्रियंवदैः । तत्राऽऽनिन्ये समभ्यर्थ्य ससीतोऽपि रघूद्वहः ॥ ८४ ॥ सोऽनमस्यद्रामभद्रं भद्रधीर्मैथिलीमपि । तयोः कृते पटकुटी तत्कालं च न्यवेशयत् ॥ ८५ ॥ तत्र रामं कृतस्नानभोजनं स उपाययौ । सहैकमन्त्रिणा युक्तः स्त्रीवेशो निःपरिच्छदः ।। ८६ ।। १ अधिभू राजा । २ भेदनशील आत्मा येषां तैः । ३ कूबरपतिः । ४ वस्त्रगृहम् तम्बु इति लोके ।
सप्तमं पर्व
पञ्चमः
सर्गः
रामलक्ष्मणरावण
चरितम् ।
लक्ष्मणेन तयोः सन्धिकरणम्, सीतायै
जलार्थ
सौमित्रिगमनम् ।
।। १२२ ।।