________________
त्रिषष्टिशलाकापुरुषचरिते ॥१२१॥
सप्तमं पर्व पञ्चमः सर्गः रामलक्ष्मणरावणचरितम् ।
का
सिंहोदरः ससैन्योऽथ सौमित्रिं हन्तुमुद्यतः । बालः परिस्प्रष्टुमिव भस्मच्छन्नं हुताशनम् ।। ५७ ।। लक्ष्मणोऽपि गजालानं भुजेनोन्मूल्य नालवत् । विद्विषस्ताडयामासोदस्तदण्ड इवाऽन्तकः ।। ५८ ॥ अथ सौमित्रिरुत्पत्य सिंहोदरमभिस्थितम् । तद्वाससा पशुमिवाऽबध्नात् कण्ठे महाभुजः ॥५९ ॥ आश्चर्यं पश्यतां तत्र दशाङ्गपुरवासिनाम् । तं निन्डये गामिवाऽऽकृष्य लक्ष्मणो रामसन्निधौ ॥६०॥ दृष्ट्वा सिंहोदरो रामं नत्वा चेदमभाषत । न ज्ञातस्त्वमिहाऽऽयातो मया रघुकुलोद्वह ! ॥६१ ॥ अथवा किमिदं देव ! मत्परीक्षाकृते कृतम् ? । कृतं नः प्राणितेनाऽपि यूयं छलपरा यदि ।। ६२ ॥ क्षमस्वाऽज्ञानदोष मे यत्कर्तव्यं तदादिश । भूत्ये कोपः शिक्षामात्रकृते शिष्ये गुरोरिव ।। ६३ ।। सन्धेहि वज्रकर्णेनेत्यादिशत्तं रघूद्वहः । सिंहोदरोऽपि तां वाचं तथेति प्रत्यपद्यत ।। ६४ ॥ तत्राऽऽगाद्वज्रकर्णोऽपि रामभद्रस्य शासनात् । विनयेन पुरोभूय कृताञ्जलिरुवाच च ।। ६५ ॥ स्वामिनौ वृषभस्वामिवंशजौ रामशाहिणौ । युवां दृष्टौ मया दिष्ट्या किं तु ज्ञातौ चिरादिह ।। ६६ ।। भरतार्धस्य सर्वस्य युवां नाथौ महाभुजौ । अहमन्ये च राजानो युवयोरेव किङ्कराः ।।६७ ॥ मुञ्चैनं मत्प्रभुं नाथ ! शाधि चैनमतः परम् । यथाऽसौ सहते मेऽन्यप्रणामाभिग्रहं सदा ।। ६८ ॥ विनाऽर्हन्तं विना साधुं नमस्यो नाऽपरो मया । इति ह्यभिग्रहोऽग्राहि महर्षेः प्रीतिवर्धनात् ।। ६९ ।। रामभ्रूसञ्ज्ञया सिंहोदरस्तप्रत्यपद्यत । सौमित्रिणा विमुक्तः सन् वजकर्णं च सस्वजे ॥७०।। सिंहोदरोऽपि परया प्रीत्या राघवसाक्षिकम् । राज्याधं वज्रकर्णाय सोदरायेव दत्तवान् ।।७१ ।। १ गजबन्धनस्तम्भम् । २ ऊर्वीकृत दण्डः । ३ शिक्षा देहि ।
वजकर्णसिंहोदरयोर्विरोधः, समाधानार्थ रामेण लक्ष्मणप्रेषणम् ।
॥१२१ ॥