________________
त्रिषष्टिशलाका
पुरुषचरिते
सप्तमं पर्व पञ्चमः सर्गः रामलक्ष्मणरावणचरितम् ।
RESERESTMASSACR
||१२०॥
एवमुक्तवतस्तस्य दरिद्रस्य रघूद्वहः । रत्नस्वर्णमयं सूत्रमदत्त करुणानिधिः ।। ४२ ।। तं विसृज्य ततो रामो दशाङ्गपुरमीयिवान् । चन्द्रप्रभ बहिश्चैत्ये नत्वा तत्राऽप्यवास्थित ॥४३ ।। रामादेशेन सौमित्रिस्तत्प्रविश्य क्षणात् पुरम् । वज्रकर्णान्तिकेऽगच्छदलक्ष्याणां ह्यसौ स्थितिः ॥ ४४ ॥ वज्रकर्णः सदाकारं ज्ञात्वा तं नरमुत्तमम् । ऊचे महाभाग ! भव भोजनातिथ्यभाग् मम ॥ ४५ ॥ रामानुजोऽप्यभिदधे सकलत्रो मम प्रभुः । स्थितोऽस्ति बहिरुद्याने तमादौ भोजयाम्यहम् ।। ४६ ।। ततः सौमित्रिणा साधं वज्रकर्णो महीपतिः । भूयिष्ठव्यञ्जनं भोज्यमुपराममनाययत् ।। ४७ ॥ भुक्तोत्तरे चाऽनुशिष्य रामेण प्रेषितो ययौ । लक्ष्मणोऽवन्तिनृपति जगादेति च सौष्ठवी ॥४८ ॥ राजा दाशरथिसीकृताशेषमहीपतिः । विरोधं वज्रकर्णेन भरतस्ते निषेधति ।। ४९ ॥ सिंहोदरोऽपि प्रत्यूचे भृत्यानां भरतोऽपि हि । भक्तानामेव कुरुते प्रसादं नाऽन्यथा पुनः ॥ ५० ॥ अयं पुनर्वज्रको मत्सामन्तो दुराशयः । न मां नमति तेनाऽस्य प्रसीदामि कथं ! वद ।। ५१ ।। भूयोऽपि लक्ष्मणोऽवोचन्नाऽसावविनयी त्वयि । अस्याऽप्रणामसन्धा हि जज्ञे धर्मानुरोधतः ॥ ५२ ।। मा कुप्यो वज्रकोऽयं मान्यं भरतशासनम् । आसमुद्रान्तमेदिन्या भरतः शासिता यतः ।।५३ ॥ क्रुद्धः सिंहोदरः स्माऽऽह को नाम भरतो नृपः । यो वजेकर्णगृह्यः सन् वातुलो मां वदत्यदः ॥५४ ।। कोपारुणाक्षः सौमित्रिः स्फुरदोष्ठदलोऽवदत् ।रे न जानासि भरतं! ज्ञापयाम्येष मक्षु तम् ॥ ५५ ॥ उत्तिष्ठस्व युधे सर्वात्मना संवर्मितो भव । न भवस्येष गोधेव मद्भुजाशनिताडितः ।। ५६ ॥ १ बहुतराणि शाकानि यस्मिस्तत् । २ प्रापयत् ।३ सौष्ठवं भद्रत्वमस्याऽस्तीति । ४ प्रणामाकरणे प्रतिज्ञा । ५ वजकर्णस्य पक्षपाती।
वजकर्ण| सिंहोदरयोर्विरोधः, समाधानार्थ रामेण लक्ष्मणप्रेषणम् ।
॥१२०॥