________________
त्रिषष्टिशलाकापुरुषचरिते 119१९॥
सप्तमं पर्व पञ्चमः सर्गः रामलक्ष्मणरावणचरितम् ।
सिंहोदरोऽवदद्देवि ! तावन्निद्रा कुतो मम । प्रणामविमुखो यावद्वज्रकर्णो न मार्यते ? ||२७ ॥ अमुं प्रातर्हनिष्यामि ससुहृत्पुत्रबान्धवम् । यात्वियं रजनी तावद्विनिद्रस्याऽपि मे प्रिये ! ॥ २८ ॥ तदाकर्ण्य तवाऽऽख्यातुं त्यक्तकुण्डलचौरिकः । त्वां साधर्मिकवात्सल्यादिह त्वरितमागमम् ।। २९ ।। वज्रकर्णस्तदाकर्ण्य पुरी तृणकणाधिकाम् । सद्यो व्यधत्ताऽपश्यच्च परचक्ररजोऽम्बरे ॥३०॥ क्षणाच्चाऽवेष्ट्यत सिंहोदरेण प्रबलैर्बलैः । तद् दशाङ्गपुरं विष्वक् चन्दनदुरिवाऽहिभिः ।।३१ ॥ सिंहोदरोऽथ दूतेन वज्रकर्णमदोऽवदत् । प्रणाममायया मायिन् वञ्चितोऽस्मि त्वया चिरम् ॥ ३२ ॥ विना तेनाऽङ्गुलीयेन मामागत्य नमस्कुरु । अन्यथा सकुटुम्बस्त्वं यमवेश्माऽद्य यास्यसि ।। ३३ ॥ प्रत्यूचे वज्रकर्णोऽपि मम ह्ययमभिग्रहः । विनाऽर्हन्तं विना साधुं प्रणमाम्यपरं न हि ।।३४ ।। न पौरुषाभिमानोऽत्र किं तु धर्माभिमानिता । नमस्कारं विना सर्वं ममाऽऽदत्स्व यथारुचि ।। ३५ ।। धर्मद्वारं देहि मह्यं यथा धर्माय कुत्रचित् । अहमन्यत्र गच्छामि धर्म एवाऽस्तु मे धनम् ।।३६ ।। इत्युक्ते वज्रकर्णेन न हि तत्प्रत्यपादि सः । जात धर्ममधर्म वा गणयन्ति न मानिनः ।।३७॥ पुरं सवज्रकर्ण तद्रुद्ध्वा सिंहोदरो बहिः । स्थितोऽस्ति मुष्णन् देशश्च तद्भयादयमुद्वसः ॥ ३८ ॥ अहं च सकुटुम्बोऽपि नष्टोऽस्मिन् राजविग्रहे । दग्धान्यत्राऽद्य सौधानि जीर्णा सा च कुटी मम ।। ३९ ॥ शून्येभ्य इभ्यवेश्मभ्यो वेश्मोपकरणान्यहम् । आनेतुं क्रूरगेहिन्या प्रेषितो यामि तन्मुखः ॥ ४० ॥ तस्या दुर्वचसोऽप्येतत्फलं शुभमभून्मम । यन्मया देवकल्पस्त्वं दृष्टो दैववशादसि ।। ४१ ॥ १ गृहाण । २ देवसदृशः ।
वजकर्ण| सिंहोदरयोर्विरोधः ।
॥११९ ॥