________________
त्रिषष्टिशलाकापुरुषचरिते ||११८॥
सप्तमं पर्व पञ्चमः सर्गः रामलक्ष्मणरावणचरितम् ।
नमस्कार्यो मया नाऽन्य इति तावदभिग्रहः । सिंहोदरश्च मे वैरी भविष्यत्यनमस्कृतः ।। १३ ॥ एवं विमृश्योत्प्रतिभः स्वाङ्गुलीये मणीमयीम् । मुनिसुव्रतनाथस्य प्रतिमां सन्न्यवीविशत् ।। १४ ।। तद् बिम्बं स्वाङ्गुलीयस्थं नमन् वञ्चयते स्म सः । सिंहोदरं नरपति मायोपायो बलीयसि ।। १५ ।। तं वजकर्णवृत्तान्तं सिहोदरमहीपतेः । आचचक्षे खलः कोऽपि खलाः सर्वकषाः खलु ।। १६ ।। सद्यः सिंहोदरोऽकुप्यन्महाहिरिव निःश्वसन । वज्रकर्णाय तत्कोपं कोऽप्यागत्य शशंस च ।। १७ ।। तस्य कोपो मयि कथं त्वया ज्ञात ? इति स्फुटम् । वज्रकर्णेन पृष्टः सन्नाचख्यौ स पुमानिति ।। १८ ।। पुरे कुन्दपुरे श्राद्धः समुद्रसङ्गमो वणिक् । यमुना नाम तत्पत्नी विधुदङ्गोऽस्मि तत्सुतः ।। १९ ।। क्रमाच्च यौवनं प्राप्तो भाण्डमादाय चाऽगमम् । उज्जयिन्यामहं पुर्यां क्रयविक्रयहेतवे ।।२०।। तत्र कामलतां नाम्नाऽपश्यं वेश्यां मृगीदृशम् । सद्यश्च कामबाणानामभूवमहमास्पदम् ।। २१ ॥ निशामेकां वसामीति तया कृतसमागमः । दृढं रागेण बद्धोऽहं मृगो वागुरया यथा ।। २२ ।।
आजन्म कष्टेन धनं यन्मत्पित्राऽर्जितं बहु । तेद्वशेन मया तत्तु षड्भिर्मासैर्विनाशितम् ॥ २३ ॥ सिंहोदरमहिष्याः श्रीधराया ये हि कुण्डले । तादृशे देहि मह्यं त्वमित्यूचे साऽन्यदा तु माम् ।। २४ ।। न मेऽर्थः कश्चिदप्यस्ति ते एवाऽपहराम्यहम् । इति रात्रौ साहसिकः खात्रेणाऽगां नृपौकसि ॥ २५ ॥ सिंहोदरं श्रीधरेति पृच्छन्ती शुश्रुवे मया । नाथोद्विग्न इवेदानों निद्रां न लभसे कथम् ? ||२६ ॥ १ उत्पन्ना प्रतिमा बुद्धिर्यस्य सः ।२ माया कपटमेवोपायः ।३ सर्वं कषन्ति नाशयन्तीति सर्वकषाश्छुरिकातुल्या इत्यर्थः । ४ पाशेन । ५ वेश्यावशेन ।
निर्जनवनस्वरूपं रामः
कस्मै
चित्पृच्छति ।
॥११८॥