SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ [पञ्चमः सर्गः । त्रिषष्टिशलाकापुरुषचरिते ॥११७॥ सप्तमं पर्व पञ्चमः सर्गः रामलक्ष्मणरावणचरितम् । ASKRISHRARSHASHASHASARALS वनस्वरूपप्रच्छनम्। रामोऽथ विश्रमयितुं श्रान्तामध्वनि जानकीम् । वटस्य मूले न्यषदद् गुह्यकानामिवेश्वरः ॥१॥ तं देशं सर्वतो वीक्ष्य रामः सौमित्रिमभ्यधात् । देशः कस्याऽपि भीत्याऽयमधुनैवोद्वसोऽभवत् ॥२॥ अशुष्ककुल्यान्युद्यानानीक्षुवाटाश्च सेक्षवः । सान्नानि च खलान्याहुनूतनोद्वसतामिह ॥३॥ तदा च रामः पप्रच्छ गच्छन्तं जनमेककम् । किमुच्चचाल देशोऽयं ? क्व चाऽसि चलितोऽनघ! ॥४॥ सोऽप्यूचेऽवन्तिदेशेऽस्मिन् पुर्यवन्त्यां नरेश्वरः । अस्ति सिंहोदरो नाम सिंहवद् दुःसहो द्विषाम् ॥ ५ ॥ तस्य च प्रतिबद्धोऽस्ति विषयेऽस्मिन्महामतिः । सामन्तो वज्रकर्णाख्यो दशाङ्गपुरनायकः ।।६।। स पापद्धयां गतोऽन्येधुर्वनमध्ये महामुनिम् । कायोत्सर्गस्थमैक्षिष्ट नामतः प्रीतिवर्धनम् ॥७॥ किं तिष्ठसि दुम इवारण्येऽमुत्रेति तेन तु । अनुयुक्तो मुनिरात्महितार्थमिति सोऽवदत् ।। ८ ॥ भूयोऽप्यूचे वज्रकर्णः खाद्यपेयादिवर्जिते । अत्र सम्पद्यतेऽरण्ये किं नामाऽऽत्महितं तवं? ॥९॥ तं च योग्यं मुनिख़त्वा धर्ममात्महितं जगौ । श्रावकत्वं सोऽपि सद्यः प्रपेदे तत्पुरः सुधीः ॥१०॥ विना च देवमर्हन्तं विना साधूंश्च नाऽपरम् । नस्यामीति तदग्रे स जग्राहाऽभिग्रहं दृढम् ।। ११ ॥ ततश्च तं स वन्दित्वाऽगाद् दशाङ्गपुरम् । पालयन् श्रावकत्वं च चिन्तयामासिवानिदम् ॥ १२ ॥ १ निर्जनः ।२ अधीनः । ३ मृगयायाम् । ॥११७॥
SR No.009657
Book TitleTrishashti Shakala Purush Charitam Part 4
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy