________________
| सप्तमं पर्व
चतुर्थः
त्रिषष्टिशलाकापुरुषचरिते ||११६॥
| पत्युः सुतानां तन्मातृजनस्य च मया कृतम् । इदं दुःखाकरं कर्म तत्सहस्व सुतोऽसि यत् ।। ५२२ ॥ इत्यादि साश्रु जल्पन्तीं तामूचे लक्ष्मणाग्रजः । तातस्य सूनुर्भूत्वाऽहं प्रतिज्ञातं त्यजामि किम् ? ।। ५२३ ॥ तातेन दत्तमेतस्मै राज्यं ह्यनुमतं मया । अस्त्वन्यथा कथङ्कारं वाग्द्वयोर्जीवतोरपि ? ॥ ५२४ ।। तदस्तु भरतो राजा द्वयोरपि निदेशतः । अस्याऽस्म्यहमनुल्लच्छयो मम तात इवाऽम्बिके! ।। ५२५ ॥ इत्युक्त्वोत्थाय काकुत्स्थः सीतानीतजलैः स्वयम् । राज्येऽभ्यषिञ्चद् भरतं सर्वसामन्तसाक्षिकम् ।। ५२६ ।। रामः प्रणम्य कैकेयी सम्भाष्य भरतं तथा । विससर्ज प्रतस्थे च केकुभं दक्षिणां प्रति ।। ५२७ ॥ ययावयोध्यां भरतस्तत्र चाऽखण्डशासनः । ऊरीचक्रे राज्यभारं पितुर्धातुश्च शासनात् ।। ५२८ ।। महामुनेः सत्यभूतेः पावें दशरथोऽप्यथ । भूयसा परिवारेण समं दीक्षामुपाददे ॥ ५२९ ।। स्वभ्रातृवनवासेन भरतः शल्यितो हृदि । अर्हत्पूजोधतोऽरक्षद्राज्यं यामिकवत्सुधीः ॥ ५३० ।।
सौमित्रिमैथिलसुतासहितोऽथ रामो गच्छन्नतीत्य गिरिमध्वनि चित्रकूटम् । आसादयत्कतिपयैर्दिवसैरवन्तिदेशैकदेशमवनिस्थितदेवदेश्यः ।। ५३१ ।।
सर्गः रामलक्ष्मणरावण
चरितम् ।
रामदीनां वनवासः, भरतस्य राज्याभिषेकः ।
इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये सप्तमे पर्वणि राम-लक्ष्मणोत्पत्ति-परिणयन-वनवासगमनो नाम
चतुर्थः सर्गः ।
॥११६॥
१ अश्रुसहितं यथा स्यात्तथा ।२ दिशम् ।