________________
त्रिषष्टिशलाकापुरुषचरिते 11११५॥
सप्तमं पर्व चतुर्थः सर्गः रामलक्ष्मण| रावणचरितम् ।
अविमृश्य विधायिन्या पापीयस्या मया कृतम् । सति त्वयि सुपुत्रेऽपि हहा ! राज्यमराजकम् ।। ५०७ ।। कौशल्यायाः सुमित्राया सुप्रभायाश्च दुःश्रवम् । रुदितं मम शृण्वन्त्या हृदयं भवति द्विधा ।।५०८ ॥ भरतेन समं गत्वा तौ वत्सौ रामलक्ष्मणौ । अनुनीय समानेष्याम्यनुजानीहि नाथ ! माम् ।। ५०९ ॥ अथाऽऽदिष्ट प्रहृष्टेन राज्ञा दशरथेन सा । ययौ सभरतामात्या प्रति रामं कृतत्वरा ।। ५१० ॥ कैकेयीभरतौ षड्भिः प्रापतुस्तद्वनं दिनैः । अपश्यतां दुमूले च जानकीरामलक्ष्मणान् ।। ५११ ॥ रथादुत्तीर्य कैकेयी वत्स ! वत्सेति भाषिणी । प्रणमन्तं रामभद्रं चुचुम्बोपरि मूर्धनि ।। ५१२ ॥ पादाब्जयोः प्रणमन्तौ वैदेहीलक्ष्मणावपि । आक्रम्योपरि बाहुभ्यां तारतारं रुरोद सा ।। ५१३ ॥ भरतोऽपि नमश्चक्रे रामपादावुदश्रुदृक् । प्रत्यपद्यत मूर्छा च मूर्च्छत्खेदमहाविषः ॥ ५१४ ।। बोधितो रामभद्रेण विनयी भरतोऽवदत् । अभक्तमिव मां त्यक्त्वा कथमत्र त्वमागमः ? ।। ५१५ ।। राज्यार्थी भरत इति मातृदोषेण योऽभवत् । ममाऽपवादो हर तमात्मना सह मां नयन् ॥ ५१६ ॥ निवृत्य यद्वाऽयोध्यायां गत्वा राज्यश्रियं श्रय । कौलीनशल्य मे भ्रातरेवमप्यपयास्यति ।। ५१७ ॥ जगन्मित्रं हि सौमित्रिस्तवाऽमात्यो भविष्यति । अयं जनः प्रतिहारः शत्रुघ्नस्त्वातपत्रभृत् ।। ५१८॥ एवं ब्रुवाणे भरते कैकेय्यप्यब्रवीदिदम् । कुरु भ्रातृवचो वत्स ! सदाऽसि मातृवत्सलः ॥५१९ ।। अत्र न त्वत्पितुर्दोषो न दोषो भरतस्य च । कैकेय्या एव दोषोऽयं सुलभः स्त्रीस्वभावतः ॥ ५२० ॥ कौलट्यवर्जा ये केऽपि दोषाः स्त्रीणां पृथक् पृथक् । ते सर्वे कृतसंस्थाना मयि दोषखनाविव ।।५२१ ।। १ मूर्च्छत् व्याप्तीभवत् खेद एव महाविषं यस्य सः । २ कुलनाशकं शल्यम् । ३ कुलटायाः कर्म कौलट्य तद्वर्जाः ।
| रामदीनां | वनवासः।
॥११५ ।।