________________
त्रिषष्टिशलाकापुरुषचरिते ||११४॥
| सप्तमं पर्व चतुर्थः वर्गः रामलक्ष्मणरावणचरितम् ।
पश्चिमायायिनं रामं प्रापुस्त्वरितमेव ते । निवृत्त्यै चाऽभ्यधुर्भक्त्या राजाज्ञाख्यानपूर्वकम् ।। ४९३ ।। तैर्दीनैः प्रार्थ्यमानोऽपि न न्यवर्तत राघवः । महतां हि प्रतिज्ञा तु न चलत्यद्रिपादवत् ।। ४९४ ।। विसृज्यमाना अपि ते राघवेण मुहुर्मुहुः । सहैव चेलुः सर्वेऽपि कृताशास्तन्निवर्तने ।। ४९५ ।। अथोग्रश्वापदपदं निर्मानुष्यां घनदुमाम् । पारियात्राटवीं प्रापुर्जानकीरामलक्ष्मणाः ।। ४९६ ।। अभिधानेन गम्भीरां गम्भीरावर्तभीषणाम् । पृथुप्रवाहां पथि ते समीक्षाञ्चक्रिरे नदीम् ॥ ४९७ ॥ तत्र स्थित्वाऽवदद्रामः सामन्तादीनिदं वचः । इतः स्थानान्निवर्तध्वमध्वा कथे ह्यतः परम् ।। ४९८ ।। अस्माकं कुशलोदन्तं गत्वा तातस्य शंसत । उपाध्वं भरतं मद्वत्तातवद्वाऽप्यतः परम् ।। ४९९ ।। धिगस्मान् रामपादानामयोग्यानिति भूरिशः । ते रुदन्तो न्यवर्तन्त बाष्पाम्भः स्तिमितांशुकाः ॥ ५०० ।। उत्ततार ततो रामो दुस्तरां तां तरङ्गिणीम् । ससीतालक्ष्मणः सनिःप्रेक्षितस्तैस्तटस्थितैः ।। ५०१ ॥ रामेऽथ दृक्पथातीते सामन्ताद्याः कथञ्चन । अयोध्यानगरीमीयुस्तद्राज्ञे व्याचचक्षिरे ।। ५०२ ।। राजाऽप्युवाच भरतं नाऽऽयातौ रामलक्ष्मणौ । राज्यं गृहाण मम तद्दीक्षाविघ्नाय मा स्म भूः ॥ ५०३ ॥ भरतोऽप्यवदद्राज्यं नाऽऽदास्येऽहं कथञ्चन । आनेष्ये तु स्वयं गत्वा प्रसाद्य निजमग्रजम् ।। ५०४ ॥ आगात्तदा च कैकेयी राजानमिति चाऽब्रवीत् । भरताय त्वया राज्यं दत्तं सत्यप्रतिश्रव! ॥५०५ ॥ परमेष न गृह्णाति राज्यं ते विनयी सुतः । अन्यासां चाऽस्य मातॄणां महद् दुःखं ममाऽपि च ॥ ५०६ ।। १ पश्चिमायां गामिनम् । २ निवर्तनाय ।३ पर्वतप्रत्यन्तवत् । ४ बद्धाशाः । ५ पारियात्रनामा कुलाचलस्तस्याऽटवीम् । केचित् सौराष्ट्रदेशेषु प्रसिद्ध 'बरडा' इत्याख्यं गिरि पारियात्रं वदन्ति ।। ६ सेवध्वम् । ७ बाष्पजलेनार्द्रवस्त्राणि येषां ते । ८ अश्रुसहितैः ।
| रामदीनां वनवासः, भरतेन राज्याग्रहणम् ।
॥११४ ॥