________________
त्रिषष्टिशलाकापुरुषचरिते
11993 11
त्वमेकोऽत्राऽवतिष्ठस्व मा प्रतिष्ठस्व लक्ष्मण ! । ममाSS श्वासकृते रामविरहार्दितचेतसः ।। ४७९ ॥ प्रत्यूचे लक्ष्मणोऽप्येवं माता रामस्य नन्वसि । मातः ! कृतमधैर्येणाऽर्हेण सामान्ययोषिताम् ।। ४८० । दूरे गच्छति मे बन्धुरनुयास्यामि तं द्रुतम् । तद्विघ्नं मा कृथा देवि ! रोमनिघ्नः सदाऽप्यहम् ।। ४८१ ।। तामित्युक्त्वा च नत्वा च सौमित्रिरथ सत्वरम् । अनुधाव्याऽगमत् सीतारामौ कार्मुकतूणभृत् ॥ ४८२ ॥ योऽपि निर्ययुः पुर्या विकस्वरमुखाम्बुजाः । विलासोपवनायेव वनवासाय सोद्यमाः ।। ४८३ ॥ प्राणैरिव विनिर्यद्भिर्मैथिलीरामलक्ष्मणैः । कष्टथं नराश्च नार्यश्च नगर्यां लेभिरे दशाम् ॥ ४८४ ॥ वेगात्तानन्वधावन्ताऽनुरागेण गरीयसा । नागराः क्रूरकैकेयीविध्योराक्रोशदायिनः ।। ४८५ ।। बाष्पायमाणो राजाऽपि सान्तःपुरपरिच्छदः । द्रुतमन्वसरद्राममाकृष्टः स्नेहरज्जुभिः ।। ४८६ ॥ द्रुतं राज्ञि जने चाऽपि रामभद्रानुगामिनि । नगर्ययोध्या समभूदुद्वसेव समन्ततः ।। ४८७ ।। अथाऽवस्थाय काकुत्स्थः पितरं जननीरपि । न्यवर्तयत्कथमपि गिरा विनयसारया ।। ४८८ ॥ तथा यथोचितालापैः पौरानपि विसृज्य सः । सीतासौमित्रिसहितस्त्वरितत्वरितं ययौ ।। ४८९ ॥ ग्रामे ग्रामे ग्रामवृद्धैर्महेभ्यैश्च पुरे पुरे । प्रार्थ्यमानोऽप्यवस्थातुं काकुत्स्थो न ह्यवास्थित ।। ४९० ।। इतश्च भरतो राज्यं नाऽऽददे किं तु प्रत्युत । कैकेयीं स्वं च चुक्रोश स्वभ्रातृविरहासहः ।। ४९१ ।। परिव्रज्योत्सुको राजा सामन्तान् सचिवानपि । प्राहिणोद्राममानेतुं राज्याय सहलक्ष्मणम् ।। ४९२ । १ रामाधीनः । २ क्रूरायाः कैकेय्या विधेरदृष्टस्य च । ३ उद्वसा निर्जना 'उज्जड' इति भाषायां अनुकरणे । ४ रामः ।
सप्तमं पर्व
चतुर्थः
सर्गः
रामलक्ष्मण
रावण
चरितम् ।
रामदीनां
वनवासः ।
।। ११३ ।।