________________
त्रिषष्टिशलाका
पुरुषचरिते
11993 11
इति व्यावर्णयन्तीभिः शोकगद्गदया गिरा । पौरीभिः कथमप्यैक्षि सीता यान्ती वनं प्रति ।। ४६५ ।। ॥ त्रिभिर्विशेषकम् ॥ रामं वनाय निर्यान्तं श्रुत्वा सपदि लक्ष्मणः । सद्यः संन्धुक्षितक्रोधवह्निर्दध्याविदं हृदि । ४६६ ।। ऋजुस्तातः प्रकृत्याऽपि प्रकृत्याऽनृजवः स्त्रियः । इयच्चिरं धृत्वा याचते साऽन्यथा कथम् ? ।। ४६७ । दत्तमेतावता राज्यं भरताय महीभुजा । अपनीतमृणं स्वस्य गता नश्च पितॄणभीः ।। ४६८ ।। निर्भयः साम्प्रतं हृत्वा भरतात् कुलपांसनात् । न्यस्यामि राज्यं किं रामे विरामाय निजक्रुधः ? ।। ४६९ ।। अथवाऽसौ महासत्त्वस्तृणवद्राज्यमुज्झितम् । रामो नाऽऽदास्यते दुःखं तातस्य तु भविष्यति ॥ ४७० ।। तातस्य मा स्म भूद् दुःखं राजास्तु भरतोऽपि हि । अहं त्वनुगमिष्यामि रामपादान् पदातिवत् ॥ ४७१ ।। एवं विचिन्त्य सौमित्रिर्नत्वाऽऽपृच्छ्य च भूपतिम् । ययौ सुमित्रामाप्रष्टुं नत्वा चैवमवोचत ।। ४७२ ॥ गमिष्यति वनं रामोऽनुगमिष्यामि तं त्वहम् । मर्यादाब्धि विना ह्यार्यं न स्थातुं लक्ष्मणः क्षमः ॥ ४७३ ॥ कथञ्चिद्धैर्यमालम्ब्य सुमित्राऽप्यब्रवीदिदम् । साधु वत्साऽसि मे वत्सो ज्येष्ठं यदनुगच्छसि ।। ४७४ ।। मां नमस्कृत्य वत्सोऽद्य रामभद्रश्चिरं गतः । अतिदूरे भवति ते मा विलम्बस्व वत्स ! तत् ।। ४७५ ।। इदं साध्वम्ब ! साध्वम्ब ! मदम्बाऽसीत्युदीर्य ताम् । नत्वा च लक्ष्मणोऽगच्छत् प्रणन्तुमपराजिताम् ॥ ४७६ ॥ तां नत्वोवाच सौमित्रिरार्य एकाक्यगाच्चिरम् । त्वामाप्रष्टुमहं त्वागामार्यानुगमनोत्सुकः ।। ४७७ ॥ उदश्रुरूचे कौशल्या मन्दभाग्याऽस्मि हा ! हता । वत्स ! त्वमपि मां मुक्त्वा प्रस्थितोऽसि वनाय यत् ॥ ४७८ ॥ १ सन्धुक्षितः - दीप्तः क्रोधाग्निर्यस्य सः । २ वक्राः । ३ कुलाधमात् ।
জ
सप्तमं पर्व चतुर्थः
सर्गः
रामलक्ष्मणरावण
चरितम् ।
सीताराम
लक्ष्मणानां वनवास
प्रारम्भः ।
।। ११२ ।।