________________
त्रिषष्टिशलाकापुरुषचरिते ।।१११॥
| सप्तमं पर्व चतुर्थः सर्गः रामलक्ष्मणरावणचरितम् ।
वनान्यटितुमेकाकी याति केसरिणीसुतः । स्वस्था तु केसरिण्यास्ते न ताम्यति मनागपि ॥४५१ ॥ तातस्य ऋणमस्त्युच्चैः प्रतिपन्नवरो ह्ययम् । अत्र स्थिते च मय्यम्ब ! तस्याऽऽनृण्यं भवेत्कथम् ? ॥४५२ ।। इत्यादियुक्तिवचनैर्बोधयित्वाऽपराजिताम् । तां नत्वाऽन्याश्च जननीर्निर्ययौ लक्ष्मणाग्रजः ॥ ४५३ ॥ दूराद् दशरथं नत्वा सीतोपेत्याऽपराजिताम् । नत्वा चाऽयाचताऽऽदेशं रामानुगमन प्रति ।। ४५४ ।। ऊचेऽपराजिता देवी क्रोडमारोप्य जानकीम् । बालामिव स्नपयन्ती कवोष्णैर्नयनोदकैः ॥ ४५५ ॥ वत्से ! वत्सो रामभद्रो विनयी पित्रनुज्ञया । वनं प्रयाति तस्यैतन्नृसिंहस्य न दुष्करम् ॥ ४५६ ।। देवीवं लालिताऽसि त्वमाजन्मोत्तमवाहनैः । सहिष्यसे कथं वत्से ! पादचङ्क्रमणव्यथाम् ? ॥ ४५७ ।। तवाऽङ्गं सौकुमार्येण कमलोदरसोदरम् । क्लिष्टं तापादिना कुर्यात्क्लेशं दाशरथेरपि ॥ ४५८ ।। स्वभर्तुरनुयानेनाऽनिष्टकष्टागमनेन च । न निषेधं न चाऽनुज्ञा यान्त्यास्ते कर्तुमुत्सहे ॥ ४५९ ।। सीताऽप्युवाच निःशोका नमस्कृत्याऽपराजिताम् । दधती प्रातरुत्फुल्लसरोरुहमिवाऽऽननम् ॥ ४६० ॥ अधित्वदस्तु मे भक्तिर्नित्यं क्षेमङ्करा पथि । एषाऽहमनुयास्यामि रामं विधुदिवाऽम्बुदम् ।। ४६१ ।। इत्युक्त्वा तां पुनर्नत्वा निर्ययौ जनकात्मजा । आत्मानमात्मारामेव ध्यायन्ती लक्ष्मणाग्रजम् ॥ ४६२ ।। अहो ! अत्यन्तमनया पतिभक्त्याऽद्य जानकी । आद्योदाहरणं जज्ञे पतिदैवतयोषिताम् ॥ ४६३ ॥ कष्टादभीता सीतेयं सतीजनमतल्लिका । अहो शीलेन महता पुनाति स्वं कुलद्वयम् ।। ४६४ ।। १ सिंहीपुत्रः ।२ अङ्कम् । ३ पट्टराज्ञीव । ४ रामस्यापि क्लेशं कुर्यात्तापादिना क्लिष्टं तवाङ्गम् कर्तृ । ५ त्वयि अधि इति अधित्वत् । ६ पतिरेव दैवत-देवः यासां, तासां नारीणाम् । ७ सतीसमूहे प्रशस्या ।
रामस्य वनवासः ।
॥१११॥