________________
त्रिषष्टिशलाकापुरुषचरिते ॥११०॥
सप्तमं पर्व चतुर्थः सर्गः रामलक्ष्मणरावणचरितम् ।
सोऽद्य ते राज्यदानेन कैकेय्या याचितोऽनघ! । आज्ञां मम च मातुश्च नाऽन्यथा कर्तुमर्हसि ।।४३६ ।। रामो भरतमित्यूचे न ते गर्वोऽस्ति यद्यपि । तथाऽपि सत्यापयितुं तातं त्वं राज्यमुद्वह ।। ४३७ ॥ अथाऽश्रुभरितदृष्टिर्भरतो गद्गदाक्षरम् । पतित्वा पादयो राममित्युवाच कृताञ्जलिः ।। ४३८ ।। तातपादार्यपादानां महेच्छानामदः खलु । उचितं ददतां राज्यमाददानस्य भे न तु ।। ४३९ ।। तातस्य सूनुः किं नाऽहं ? किंवा नाऽऽर्यस्य चाऽनुजः ? ।सत्यं मातृमुखोऽस्येष गर्वमेवं करोमि चेत् ।।४४० ॥ रामो राजानमित्यूचे भरतो मयि सत्यसौ । राज्यं नाऽऽदास्यते तस्माद्वनवासाय याम्यहम् ।। ४४१॥ इत्यनुज्ञाप्य राजानं रामो नत्वा च भक्तितः । भरते च रुदत्युच्चैर्निर्ययौ चापतूणवान् ॥ ४४२ ॥ वनवासाय गच्छन्तं दृष्ट्वा दशरथः सुतम् । भूयो भूयो ययौ मूर्छामतुच्छां स्नेहकातरः ॥ ४४३ ।। अथाऽपराजितां देवीं नत्वा रामोऽभ्यधादिति । मातर्यथाऽहं तनयो भरतोऽपि तथैव ते ॥ ४४४ ॥ स्वां सत्यापयितुं सन्धां तस्मै राज्यमदात्पिता । मयि सत्येष नाऽऽदत्ते तद् गन्तव्यं मया वने ॥ ४४५ ॥ तद् दृशा भरतं पश्येः सविशेषप्रसादया । कदाचिदपि मा भूस्त्वं मद्वियोगेन कातरा ।। ४४६ ॥ तामाकर्ण्य गिरं देवी पपात भुवि मूर्छिता । चेटीभिश्चन्दनाम्भोभिः सिक्तोत्तस्थावुवाच च ॥ ४४७ ।। आः ! केन जीविताऽस्म्येषा ? मूर्छ हि सुखमृत्यवे । सहिष्ये रामविरहदुःखं जीवन्त्यहं कथम् ? ॥४४८॥ वनं व्रजिष्यति सुतः पतिश्च प्रव्रजिष्यति । श्रुत्वाऽप्येतन्न यद्दीर्णा कौशल्ये ! वज्रमय्यसि ॥ ४४९ ॥ रामो जगाद भूयोऽपि मातः ! पल्यसि मत्पितुः । ततः किमिदमारब्धं कातरस्त्रीजनोचितम् ? ॥४५० ॥ १ तस्मात्कारणात् । २ कौशल्येत्यपराजिताया अपरं नाम ।
कैकेय्या वरयाचनम्, रामस्य वनवासश्च ।
गिरं देवी पार्छ हि सुखप्तन्न यहाण
।।११०॥