________________
सप्तमं पर्व
चतुर्थः
त्रिषष्टिशलाकापुरुषचरिते ॥१०९॥
सर्गः रामलक्ष्मणरावणचरितम् ।
ममाऽन्यथा हि द्वे कष्टे स्वामिन्नत्यन्तदुःसहे । एकं त्वत्पादविरहोऽपरं संसारतर्पणम् ।। ४२१ ॥ तच्छ्रुत्वा चाऽथ कैकेयी निश्चितं भाव्यतः परम् ।न पतिर्न च मे सूनुरिति ध्यात्वाऽब्रवीदिदम् ॥४२२ ॥ स्वामिन् ! स्मरसि योऽदत्तस्त्वया मह्यं स्वयं वरः । स्वयंवरोत्सवे तत्र तेन सारथ्यकर्मणा ? || ४२३ ।। तं प्रयच्छाऽधुना मह्यं नाथ ! सत्यप्रतिश्रव! । प्रस्तरोत्कीर्णरेखेव प्रतिज्ञा हि महात्मनाम् ।। ४२४ ।। अथाऽवदद्दशरथः प्रतिपन्नं स्मराम्यहम् । याचस्व यन्ममाऽधीनं विना व्रतनिषेधनम् ॥ ४२५ ।। ततो ययाचे कैकेयी त्वं चेत्प्रव्रजसि स्वयम् । स्वामिन् ! विश्वम्भरामेतां भरताय प्रयच्छ तत् ।। ४२६ ॥ अद्यैव गृह्यतामेषा मद्भरित्यभिधाय ताम् । सलक्ष्मणं समाहूय रामं दशरथोऽवदत् ।। ४२७ ॥ अस्याः सारथ्यतुष्टेन दत्तः पूर्व मया वरः । सोऽयं भरतराज्येन कैकेय्या याचितोऽधुना ।। ४२८ ॥ रामोऽपि हृष्टोऽभाषिष्ट मात्रेदं साधु याचितम् । यन्मभ्रात्रे भरताय राज्यदानं महौजसे ।। ४२९ ।। आपप्रच्छे प्रसादान्मामिदं तातस्तथाऽप्यदः । दुनोति मामविनयसूचनाकारणं जने ।। ४३० ॥ अप्येकबन्दिने राज्यं तुष्टस्तातो ददात्वदः । निषेधेऽनुमतौ वा मे न स्वाम्यं पैत्तिमानिनः ।।४३१ ॥ भरतोऽप्यहमेवाऽस्मि निर्विशेषावुभौ तव । अतोऽभिषिच्यतां राज्ये भरतः परया मुदा ।। ४३२ ।। इति रामवचः श्रुत्वा भूपतिः प्रीतिविस्मितः । आदिक्षन्मन्त्रिणो यावद् भरतस्तावदब्रवीत् ।। ४३३ ।। स्वामिन् ! सह व्रतादानमादावष्यर्थितं मया । तात! तन्नाऽन्यथा कर्तुं कस्याऽपि वचसाऽर्हसि ॥४३४ ॥ राजाऽप्युवाच मा वत्स ! मत्प्रतिज्ञा मुधा कुरु । वरो मया हि त्वन्मातुर्दत्तो न्यासीकृतश्चिरम् ।। ४३५ ॥ १ हे सत्यप्रतिज्ञ । २ प्रस्तरः पाषाणः ।३ पृथ्वीम् । ४ अविनयसूचनस्य कारणम् । ५ पत्तिसदृशस्य मम नाधिपत्यम् ।
कैकेय्या
वरयाचनम् ।
॥१०९ ॥