________________
त्रिषष्टिशलाकापुरुषचरिते ॥१०८॥
सप्तमं पर्व चतुर्थः सर्गः रामलक्ष्मणरावणचरितम् ।
तदा मांसनिवृत्ति त्वं प्रत्यज्ञासीविवेकतः । पुरोहितेन तेनोपमन्युनोक्तश्च भग्नवान् ।। ४०६ ।। पुरोधाः सोऽन्यदा पुंसा स्कन्दनाम्ना निपातितः । गजश्चाऽभूद् गृहीतश्च भूरिनन्दनभूभुजा ।। ४०७ ।। हतश्चेभो रणे सोऽथ भूरिनन्दनभूपतेः । गन्धारायामभूत्पल्यां सूनुर्नाम्नाऽरिसूदनः ।। ४०८ ॥ सातजातिस्मरणः प्रव्रज्य च विपद्य च । सोऽहं देवः सहस्रारे कल्पे जातोऽस्मि विद्धि माम् ॥ ४०९ ।। भूरिनन्दनराजोऽभूद्विपद्याऽजगरो वने । दग्धो दावेन सोऽयासीद् द्वितीयां नरकावनिम् ।। ४१०॥ नरकेऽपि मया गत्वा स प्राक्रस्नेहात्प्रबोधितः । तस्माद्धृत्य सोऽभूस्त्वं रत्नमालीह पार्थिवः ।। ४११ ।। मांसप्रत्याख्यानभङ्ग तदानीमिव सम्प्रति । अनन्तदुःखोदकं तत्पुरदाह स्म मा कृथाः ॥ ४१२ ।। तदाकर्ण्य वचो युद्धाद्रत्नमाली न्यवर्तत । राज्ये न्यधत्त च कुलनन्दनं सूर्यनन्दनम् ॥४१३ ॥ सूर्यञ्जयेन पुत्रेण सहैव व्रतमाददे । तत्कालमेव तिलकसुन्दराचार्यसन्निधौ ।। ४१४ ॥ द्वावप्यभूतां तौ मृत्वा महाशुक्रेऽमरोत्तमौ । सूर्यञ्जयस्ततश्च्युत्वा भोस्त्वं दशरथोऽभवः ॥ ४१५ ॥ प्रच्युत्य रत्नमाली तु जनकोऽयमजायत । अभूच्च्युत्वोपमन्युस्तु कनको जनकानुजः ।। ४१६ ॥ नन्दिघोषः पिता यस्ते नन्दिवर्धनजन्मनि । सोऽहं ग्रैवेयकाच्च्युत्वा सत्यभूतिरिहाऽभवम् ।। ४१७ ॥ तच्छ्रुत्वा जातसंवेगस्तं वन्दित्वाऽनरण्यजः । प्रविव्रजिषुराधातुं रामे राज्यं गृहं ययौ ।। ४१८ ॥ अथ राज्ञीः सुतान्मन्त्रिमुख्यानाहूय पार्थिवः । आपप्रच्छे यथौचित्यं दत्तालापसुधारसः ।। ४१९ ।। नत्वा बभाषे भरतोऽहं सर्वविरतिं प्रभो! । त्वया सममुपादास्येऽवस्थास्ये त्वां विना न हि ।। ४२० ।। १ सूर्यञ्जयस्य पुत्रं कुलनन्दननामानम् । २ स्थापयितुम् । ३ दत्त आलाप एव सुधारसो येन सः ।
दशरथराज्ञः पूर्वभववर्णनम् ।
॥ १०८ ।।