________________
सप्तमं पर्व
चतुर्थः
त्रिषष्टिशलाकापुरुषचरिते ॥१०७॥
सर्गः रामलक्ष्मणरावणचरितम् ।
सेनापुरे त्वं वणिजो भावनस्य महात्मनः । पल्यामभूद्दीपिकायामुपास्तिर्नाम कन्यका ।। ३९२ ।। साधूनां प्रत्यनीका सा भूत्वा तत्र भवे चिरम् । परिबभ्राम कष्टात्तु तिर्यगादिषु योनिषु ।। ३९३ ।। तज्जीवस्त्वं भवं भ्रान्त्वा पुरे चन्द्रपुरे ततः । धनस्याऽभूत्सुतः पन्यां सुन्दर्या वरुणाभिधः ।। ३९४ ।। तदोदारः प्रकृत्या त्वं साधुभ्यः श्रद्धयाऽधिकम् । निरन्तरमदा दानं कालधर्ममथाऽऽसदः ।। ३९५ ।। द्वीपेऽथ धातकीखण्डे युग्म्युत्तरकुरुष्वभूः । मृत्वा चाऽगा देवभूयं परिच्युत्य ततोऽपि हि ।। ३९६ ।। विजये पुष्कलावत्यां पुष्कलायां च पुर्यभूः । नन्दिघोषनृपपृथ्वीदेव्योस्तुङ् नन्दिवर्धनः ।। ३९७ ।। नन्दिघोषः सुतं राज्ये न्यस्य त्वां नन्दिवर्धनम् । यशोधरमुनेरात्तदीक्षो ग्रैवेयके ययौ ।। ३९८ ॥ श्रावकत्वं पालयित्वा त्वं मृत्वा नन्दिवर्धनः । त्रिदशो ब्रह्मलोकेऽभूः परिच्युत्य ततोऽपि हि ॥३९९ ।। प्रत्यग्विदेहे वैताब्ये चोत्तरश्रेणिभूषणे । पुरे शशिपुरे रत्नमालिनः खेचरेशितुः ।। ४०० ॥ विद्युल्लताभिधानायां सधर्मिण्यां महाभुजः । सूनुः सूर्यञ्जय इति नाम्ना त्वं तनयोऽभवः ॥ ४०१ ॥
॥ त्रिभिर्विशेषकम् ।। अन्यदा रत्नमाली स दृप्तं विद्याधरेश्वरम् । विजेतुं वज्रनयनं पुरं सिंहपुरं ययौ ।। ४०२ ।। स ज्वालयितुमारेभे पुरं सिंहपुरं ततः । सबालवृद्धं सस्त्रैणं सपशूपवनं हठात् ॥ ४०३ ।। अभिधानेनोपमन्योः पूर्वजन्मपुरोधसः । जीवो देवः सहस्रारात्तं तदैत्यैवमब्रवीत् ।। ४०४ ।। भो भो ! महानुभावैवं मा कृथाः पापमुत्कटम् । त्वं भूरिनन्दनो नाम राजाऽभूः पूर्वजन्मनि ।। ४०५ ।।
दशरथराज्ञः पूर्वभववर्णनम् ।
।। १०७ ॥
१ द्वेषिणी । २ पुत्रः ।