________________
सप्तमं पर्व
चतुर्थः
त्रिषष्टिशलाकापुरुषचरिते ॥१०६॥
सर्गः रामलक्ष्मणरावणचरितम् ।
चन्द्रगतिपुष्पवत्योः सभामण्डलसीतयोः । समाचख्यौ पूर्वभवांस्तेषां पापान्निवृत्तये ॥३७८ ॥
॥युग्मम् ।। सीताभामण्डलयोश्च भवेऽस्मिन् युग्मजातताम् । भामण्डलापहारं च यथावदवदन्मुनिः ।। ३७९ ।। भामण्डलकुमारोऽपि तदाकर्ण्य मुनेर्वचः । सज्जातजातिस्मरणो मूच्छितो न्यपतद् भुवि ।। ३८० ॥ भामण्डलो लब्धसञ्ज्ञः कथितं सत्यभूतिना । स्वपूर्वभववृत्तान्तं शशंस स्वयमप्यथ ।। ३८१ ।। ययुः परमसंवेगं चन्द्रगत्यादयोऽप्यथ । स्वसेति सीतां च नमश्चके भामण्डलः सुधीः ।। ३८२ ।। जातमात्रो योऽपजते सोऽयं मम सहोदरः । इति हृष्टाऽऽशिषं तस्मै ददौ सीता महासती ।। ३८३ ।। नमश्चकार रामं च ललाटस्पृष्टभूतलः । भामण्डलो विनयवान् सद्यः सातसौहृदः ।। ३८४ ।। समं विदेहया देव्या जनकं भूपति ततः । तत्राऽऽनैषीच्चन्द्रगतिः प्रेष्य विद्याधरोत्तमान् ।। ३८५ ॥ जातमात्रापहारादिवृत्तान्ताख्यानपूर्वकम् । भामण्डलसुतस्तेऽसाविति तस्मै शशंस सः ।। ३८६ ॥ जहर्ष वचसा तेन स्तनितेनेव बर्हिणः । जनको जननी सा च विदेहा स्तन्यमक्षरत् ।। ३८७ ।। भामण्डलो नमश्चक्रे पितरावुपलक्ष्य तौ । चुम्ब्यमानो मुनि ताभ्यां स्नाप्यमानोऽश्रुवारिभिः ।। ३८८ ।। अथ चन्द्रगती राज्यं न्यस्य भामण्डले सुते । भवोद्विग्नः प्रवव्राज सत्यभूतिमुनेः पुरः ।।३८९ ॥ सत्यभूतिं चन्द्रगतिं पितरावर्नरण्यजम् । सीतारामौ च नत्वाऽगान्निजं भामण्डलः पुरम् ।। ३९० ॥ _सत्यभूति महर्षि तं नत्वा दशरथो नृपः । अपृच्छदात्मनः पूर्वभवानाख्यन्मुनिश्च सः ।। ३९१ ।।
दशरथस्य वैराग्यः भामण्डलादीनां पूर्वभव
वर्णनम् ।
॥१०६ ॥
१ मेघगर्जितेन । २ दशरथम् ।