________________
सप्तमं पर्व
चतुर्थः
त्रिषष्टिशलाकापुरुषचरिते ॥१०५॥
सर्गः रामलक्ष्मणरावणचरितम् ।
सोऽभ्यषिञ्चच्च तां मूनि तेन पुण्येन वारिणा । विलम्बेन किमागास्त्वं ? राज्ञा चैवमपृच्छ्यत ।। ३६६ ॥ कञ्चुक्यपि जगादैवं वार्द्धकं मेऽपराध्यति । सर्वकार्याक्षम स्वामिन् । मां पश्य स्वयमप्यमुम् ।। ३६७ ॥ ततो मुमूर्षुमिव तं प्रस्खलन्तं पदे पदे । घण्टान्तालिकालोलदशनं वलिभाजनम् ।। ३६८ ।। श्वेतसर्वाङ्गरोमाणं धूलोमच्छन्नलोचनम् । शुष्कमांसासृजं प्रादुर्भूतसर्वाङ्गवेपथुम् ।। ३६९ ॥ विलोक्याऽचिन्तयद्राजा स्मो यावन्नेदृशा वयम् । चतुर्थपुरुषार्थाय तावद्धि प्रयतामहे ।। ३७० ॥
॥त्रिभिर्विशेषकम् ।। एवंमनोरथो राजा विषयेभ्यः पराङ्मुखः । कमप्यनैषीत् समयं भवे वैराग्यतन्मयः ।। ३७१ ।। तस्यां नगर्यामन्येधुश्चतुर्ज्ञानी महामुनिः । सत्यभूतिरिति सङ्घप्रावृतः समवासरत् ।। ३७२ ।। सपुत्रादिपरीवारो राजा दशरथोऽपि तम् । गत्वा ववन्दे शुश्रूषुर्देशनां निषसाद च ।। ३७३ ।। तदानीमेव वैतादयगिरेश्चन्द्रगतिर्नुपः । सीताभिलाषसन्तप्तभामण्डलसमन्वितः ।। ३७४ ।। विद्याधरेन्द्ररन्वीतो रथावर्ताऽचलेऽर्हतः । वन्दित्वा विनिवृत्तः संस्तत्राऽऽयातो नभःस्थितः ।। ३७५ ।।
॥युग्मम् ।। तं मुनि समवसृतं वीक्षाश्चक्रेऽवतीर्य च । ववन्देऽथाग्रतो धर्म शुश्रूषुर्निषसाद च ॥३७६ ।। सीताभिलाषजं तापं ज्ञात्वा भामण्डलस्य तु । सत्यभूतिः सत्यवादी सूरिः प्रस्तुत्य देशनाम् ।। ३७७ ॥ १ घण्टायाः अन्तर्मध्ये या लालिका-वादनवस्तु तद्वल्लोलाश्चपला दशना-दन्ता यस्य सः, तम् ।
दशरथस्य वैराग्यः ।
॥१०५ ॥