________________
त्रिषष्टिशलाकापुरुषचरिते ||१०४॥
सप्तमं पर्व चतुर्थः सर्गः रामलक्ष्मणरावणचरितम् ।
विलक्षाश्चन्द्रगत्याद्यास्ताम्यद्भामण्डलान्विताः । विद्याधरेन्द्राः प्रययुः पुरं निजनिजं ततः ।। ३५१ ।। अथ मैथिलसन्देशादागाद् दशरथो द्रुतम् । महोत्सवेन जज्ञे च विवाहो रामसीतयोः ।। ३५२ ।। तदा च जनकभ्राता कनकोऽपि निजां सुताम् । भरताय ददौ भद्रां सुप्रभाकुक्षिसम्भवाम् ।। ३५३ ॥ समं सुतैः स्नुषाभिश्च राजा दशरथोऽपि हि । ययावयोध्यां नगरी नागरैः प्रकृतोत्सवाम् ।। ३५४ ।। अपरेधुर्दशरथो राजा चैत्यमहोत्सवम् । ऋद्ध्या महत्या विदधे शान्तिस्नात्रं चकार च ॥३५५ ।। स्नानाम्भः सौविदल्लेन महिष्यै प्रथमं तदा । पश्चात्त्वपरपत्नीभ्यो दासीभिः प्राहिणोन्नृपः ।। ३५६ ॥ यौवनाच्छीघ्रगामिन्यो दास्यः प्रथममेव ताः । राजीनामार्पयन् स्नात्रपयस्ताश्च ववन्दिरे ॥ ३५७ ॥ वृद्धत्वात्सौविदल्ले तु शनिवन्मन्दगामिनि । असम्प्राप्तस्नात्रजला महादेवीत्यचिन्तयत् ॥ ३५८ ॥ सर्वासामेव राज्ञीनां जिनेन्द्रस्नात्रवारिणा । प्रसादो विदधे राज्ञा महिष्या अपि मे न हि ॥३५९ ॥ तत्कृतं मन्दभाग्याया जीवितेनाऽप्यतो मम । ध्वस्ते माने हि दुःखाय जीवितं मरणादपि ।। ३६० ।। विमृश्येति प्रविश्याऽन्तर्मरणे कृतनिश्चया । वस्त्रेणोद्बन्धुमात्मानमारेभे सा मनस्विनी ।।३६१ ॥ तदैवाऽऽगान्नरेन्द्रस्तां तदवस्थां ददर्श च । तन्मृत्युभीतः स्वोत्सङ्गे निवेश्यैवमुवाच च ।। ३६२ ॥ कुतोऽपमानादारब्धं दुःसाहसमिदं त्वया ? । किं नाम देवाद्विदधे मया काऽप्यवमानना ? ||३६३ ।। साऽपि गद्गदवागूचे जिनस्नात्रपयः पृथक् । सर्वासां प्रैषि राज्ञीनां भवता न पुनर्मम ।। ३६४ ॥ इत्यवोचत सा यावत्तावदागाच्च कञ्चुकी । राज्ञाऽर्हत्स्नात्रवारीदं प्रस्थापितमिति ब्रुवन् ।। ३६५ ।। १ ताम्यन् यो भामण्डलस्तेन युक्ताः । २ पुत्रवधूभिः । ३ प्रकर्षेण कृत उत्सवो यस्यां ताम् । ४ कञ्चुकिना । ५ अपमानम् ।
सीतया, रामोवृत्तः स्नात्रजलाप्राप्त्या महिष्याः शोकः ।
॥ १०४ ॥