________________
| सप्तमं पर्व
| चतुर्थः
त्रिषष्टिशलाकापुरुषचरिते ।।१०३।।
सर्गः रामलक्ष्मणरावणचरितम् ।
आरोपयति यः कश्चिदनयोश्चापदण्डयोः । अप्येकतरमद्यैव स उद्वहतु नः सुताम् ।। ३३८ ।। एकैकशोऽथ दोष्मन्तः खेचरा भूभुजोऽपि च । उपधन्वं समाजग्मुस्तदारोपणकाम्यया ।। ३३९ ।। वेष्टिते पन्नगै रौद्रैश्चापे ते तीव्रतेजसी । नाऽलं बभूवुस्ते स्प्रष्टुमप्यादातुं तु का कथा ? || ३४० ॥ धनुःस्फुलिङ्गज्वालाभिर्निर्यान्तीभिरनेकशः । प्लुष्यमाणा निवृत्त्येयुस्तेऽन्यतोऽधोमुखा ह्रिया ।। ३४१ ।। अथ दाशरथी रामश्चलत्काञ्चनकुण्डलः । गजेन्द्रलीलागमनश्चापोपान्तमुपासरत् ।। ३४२ ।। वीक्ष्यमाणः सोपहासं चन्द्रगत्यादिभिर्नृपैः । जनकेन च साशङ्कं निःशङ्को लक्ष्मणाग्रजः ॥ ३४३ ॥ वज्रमिव वज्रपाणिर्वज्रावर्तं महाधनुः । शान्तोरगानलं सद्यः परिपस्पर्श पाणिना ।। ३४४ ।।
॥युग्मम् ॥ स्थापयित्वाऽध्ययःपीठ नामयित्वा च वेत्रवत् । अधिज्यं विदधे धन्वं तद्रामो धन्विनां वरः ।। ३४५ ।। आकर्णान्तं तदाकृष्य रोदःकुक्षिम्भरिध्वनि । धनुरास्फालयामास स्वयशःपटहोपमम् ।। ३४६ ॥ स्वयंवरस्रजं रामे स्वयं चिक्षेप मैथिली । चापाच्चोतारयामास रामभद्रोऽपि शिञ्जिनीम् ।।३४७ ।। लक्ष्मणोऽप्यर्णवावर्त कार्मुकं रामशासनात् । अधिज्यं विदधे सद्यः प्रेक्षितो विस्मितैर्जनैः ॥३४८ ॥ आस्फालयच्च तन्नादबधरीकृतदिङ्मुखम् । उत्तार्य मौर्वी सौमित्रिः पुनः स्थाने मुमोच च ।। ३४९ ।। ददुः सौमित्रये विद्याधराश्चकितविस्मिताः । अष्टादश निजाः कन्याः सुरकन्या इवाऽद्भुताः ।।३५० ।। १ सपैः । २ दह्यमानाः ।३ लोहपीठोपरि । ४ अन्तरीक्षस्य कुक्षिम्भरिर्ध्वनिर्यस्य तत्तथा । ५ मौर्वीम् प्रत्यञ्चाम् ।
सीतायाः स्वयंवरः ।
।। १०३ ॥