________________
त्रिषष्टिशलाकापुरुषचरिते ॥१०२॥
| सप्तमं पर्व चतुर्थः सर्गः रामलक्ष्मणरावणचरितम् ।
पूज्ये ते नः सदा गोत्रदेवतावन्निकेतने । कृते भविष्यतो रामशाह्मिणोस्तद् गृहाण ते ॥ ३२३ ।। आभ्यामारोपयत्येकमपि दाशरथिः स चेत् । वयं जितास्तदा तेन स उद्बहतु ते सुताम् ।। ३२४ ।। प्रतिज्ञामित्यनुग्राह्य बलादपि हि मैथिलम् । मिथिलायामनैषीच्च चापे ते च सनन्दनः ।। ३२५ ।। मुमोच जनक राजौकसि चन्द्रगतिर्नृपः । स्वयं तु सपरीवारोऽवात्सीत्पुर्या बहिर्मुवि ।। ३२६ ।। आचख्यौ जनकस्तच्च वृत्तं निशि तदैव हि । महादेव्या विदेहायाः सद्यो हृदयशल्यदम् ॥३२७ ।। विदेहाऽपि रुरोदैवं रे दैवाऽत्यन्तनिघृण ! । पुत्रं हृत्वा न मे तृप्तः पुत्रीमपि हरिष्यसि ? । ३२८ ।। स्वेच्छयैव वरादानं लोके न हि परेच्छया । परेच्छया वरादानं दैवादापतितं मम ।। ३२९ ।। परेच्छया प्रतिज्ञातं कोदण्डारोपणं यदि । कुर्यान्न रामोऽन्यः कुर्यात्तदाऽनिष्टो वरो भवेत् ।। ३३० ।। अथेत्थं जनकोऽवोचन्मा भैषीरेष राघवः । दृष्टसारो मया देवि ! लतावत् तस्य तद्धनुः ।। ३३१ ॥ विदेहामिति सम्बोध्य प्रभाते जनकोऽमुचत् । अर्चित्वा चापरत्ने ते मण्डपे मञ्चमण्डिते ।। ३३२ ॥ सीतास्वयंवरायाऽथ विद्याधरनरेश्वराः । तत्रैत्य जनकाहूता अधिमञ्चमुपाविशन् ॥३३३ ।। ततः सखीपरिवृता दिव्यालङ्कारधारिणी । भूचारिणीव त्रिदशी तत्रोपेयाय जानकी ॥३३४ ।। तत्र कृत्वा धनुःपूजां रामं मनसिकृत्य च । अतिष्ठज्जानकी तत्र जननेत्रसुधासरित् ।। ३३५ ।। नारदोदितसंवादिसीतारूपेक्षणात्तदा । भामण्डलकुमारस्य मारोऽभून्मारकात्मकः ।। ३३६ ।। अथोचे जनकद्वाःस्थो भो भोः सर्वेऽपि खेचराः! । महीचराश्च राजानो ! जनकोऽयं वदत्यदः ॥३३७ ॥
चन्द्रगत्याग्रहात्सीतायाः स्वयंवरः ।
।। १०२ ॥
१ सपुत्रः । २ रामो न कुर्यादन्यश्च कुर्यादित्यन्वयः । ३ कामदेव ।