________________
सप्तमं पर्व
चतुर्थः
त्रिषष्टिशलाकापुरुषचरिते ।।१०१।।
साः रामलक्ष्मणरावणचरितम् ।
नाऽमरीषु न नागीषु न गन्धर्वीषु तादृशम् । सीताया यादृशं रूपं का कथा मानवीषु तु ? ॥३०८ ।। यादृग्रूपं यथावस्थं विकर्तुं नेश्वराः सुराः । नाऽनुकतु सुरनरा न च कर्तुं प्रजापतिः ।। ३०९ ।। तस्या मधुरता काचिदाकृतौ वचनेऽपि च । कण्ठे च पाणिपादे च रक्तता काचिदुच्चकैः ।। ३१० ॥ अथवा तां यथावस्थां यथा नाऽऽलेखितुं क्षमः । नाऽलं तथा वक्तुमपि वच्यतः परमार्थतः ।। ३११॥ योग्या भामण्डलस्येति विचार्य मनसा मया । यथाप्रज्ञं समालिख्य दर्शितेयं पटे नृप ! ॥३१२ ।। भविष्यति तवैवैषा पत्नी खिद्यस्व मा ततः । इत्याश्वास्य सुतं राजा व्यसृजन्नारद मुनिम् ।।३१३ ।। ततश्च चपलगतिं नाम विद्याधरं नृपः । इत्यादिदेश जनकमपहृत्याऽऽनय द्रुतम् ।।३१४ ॥ रजन्यां जनकं हृत्वाऽनुपलक्षित एव सः । समानीयाऽर्पयामास राज्ञश्चन्द्रगतेरथ ।।३१५ ।। जनकं बन्धुवत्स्नेहाद्रथनूपुरपार्थिवः । समाश्लिष्याऽऽसयित्वा च ससौहार्दमदोऽवदत् ।। ३१६ ।। लोकोत्तरगुणा पुत्री तव सीतेति विद्यते । भामण्डलश्च मे सूनुरनूनो रूपसम्पदा ।। ३१७ ॥ द्वयोर्वधूवरत्वेन संयोगोऽस्तूचितोऽधुना । सम्बन्धादावयोश्चाऽपि मिथो भवतु सौहृदम् ।। ३१८ ।। इत्यूचे जनको दत्ता रामाय स्वसुता मया । कथमन्यस्य यच्छामि दीयन्ते कन्यकाः सकृत् ॥ ३१९ ।। अथ चन्द्रगतिः प्रोचे स्नेहवृद्धिकृते मया । आनीय याचितोऽसि त्वं तां क्षमो हर्तुमप्यहम् ॥३२० ॥ यद्यपि स्वसुता सीता त्वया रामाय कल्पिता । तथाऽपि नः पराजित्य रामस्तां परिणेष्यति ।। ३२१ ।। वज्रावर्ताऽर्णवावर्ते धनुषी देवताज्ञया । सदा यक्षसहस्राधिष्ठिते दुःसहतेजसी ।। ३२२ ।।
| चन्द्रगत्याग्रहात्सीतायाः स्वयंवरः।
।। १०१ ॥
१ धनुर्नामी एते।