________________
त्रिषष्टिशलाका
पुरुषचरिते 11900 ||
कण्ठे शिखायां बाह्रौश्च धृत्वा तुमुलकारिभिः । दासिकाद्वारपालाद्यै रुरुधे नारदस्ततः ।। २९२ ।। तेषां कलायुः शस्त्रणो राजपूरुषाः । यमदूता इव क्रुद्धा हतैनमिति भाषिणः ।। २९३ ।। क्षुभितो नारदस्तेभ्यः स्वं विमोच्य कथञ्चन । ययावुत्पत्य वैताढ्यं तत्र चैवमचिन्तयत् ।। २९४ ।। व्याघ्रीभ्य इव गौर्जीवन् दासीभ्यो निरगामहम् । दिष्ट्या प्राप्तोऽस्मि वैताढ्यं बहुविद्याधरेश्वरम् ॥ २९५ ॥ अस्तीह दक्षिणश्रेणौ चन्द्रगत्यात्मजो युवा । भामण्डलो नाम दोष्मानाखण्डलपराक्रमः ।। २९६ ॥ पटे लिखित्वा तत्सीतां दर्शयाम्यस्य येन ताम् । हठादपहरत्येष कृते प्रतिकरोम्यदः ।। २९७ ।। तथैव नारदः कृत्वा सीतारूपमदर्शयत् । भामण्डलकुमारस्याऽदृष्टपूर्वं जगत्त्रये ॥ २९८ ॥ सद्यो भामण्डलो भूतेनेवाऽऽक्रामि मनोभुवा । लेभे न जातुचिन्निद्रां विन्ध्याकृष्ट इव द्विपः ।। २९९ ।। बुभुजे न हि भोज्यानि पेयान्यपि पपौ न सः । अवतस्थे च मौनेन योगीव ध्यानतत्परः ।। ३०० ॥ तं तथा विधुरं प्रेक्ष्यावोचच्चन्द्रगतिर्नृपः । किमाधिर्बाधते कोऽपि त्वामथ व्याधिरुद्धतः ।। ३०१ ।। किमाज्ञाखण्डनं केनाऽप्यकारि भवतोऽथवा ? । अन्यद्वा ब्रूहि हे वत्स ! यत्ते दुःखस्य कारणम् ॥ ३०२ ॥ भामण्डलकुमारोऽभूद्धिया द्वेधाऽप्यवाङ्मुखः । गुरुणां तादृगाख्यातुं कुलीनाः कथमीशते ? ॥ ३०३ ॥ ऊचुर्वयस्या अथ भामण्डलस्याऽर्तिकारणम् । कामनां नारदानीतपटालिखितयोषिति ।। ३०४ ।। वेश्मन्यानीय भक्त्याऽऽशु नारदं राजपुङ्गवः । का सा कस्यात्मजेत्यादि पप्रच्छ पटयोषितः ।। ३०५ ॥ आचख्यौ नारदोऽप्येवं विदेहाजनकात्मजा । नामधेयेन सीता सा या मया दर्शिता पटे ॥ ३०६ ॥ यादृशी साऽस्ति रूपेण लिखितुं तादृशीं पुनः । नाऽभिज्ञोऽहं न चाऽन्यो वा मूर्त्या लोकोत्तरैव सा ॥ ३०७ ॥
सप्तमं पर्व
चतुर्थः
सर्गः
रामलक्ष्मणरावण
चरितम् ।
रामम्लेच्छयो
युद्धम्,
भामण्डलस्य
व्यामोहः ।
।। १०० ।।