________________
त्रिषष्टिशलाकापुरुषचरिते
॥९९॥
| सप्तमं पर्व चतुर्थः सर्गः रामलक्ष्मणरावणचरितम् ।
**GARSHASE
जितमानिषु सैन्येषु परेषु जयमानिषु । मृतमानिनि जनके लोके संहतमानिनि ।। २८०॥ रामो हसितमानी स्वमधिज्यं विदधे धनुः । अवादयच्च तन्मौवी रणनाटकडिण्डिमम् ।। २८१ ॥
॥युग्मम् ॥ भ्रूभङ्गमप्यकुर्वाणो गीर्वाण इव भूगतः । रामस्तान् कोटिशोऽप्यस्वैर्विव्याध व्याधवन्मृगान् ॥ २८२ ॥ अयं वराको जनकस्तत्सैन्यं मशकोपमम् । तत्साहाय्यागतं सैन्यं दैन्यमागादितोऽप्यभूत् ।। २८३ ।। अरे! कुत इमे बाणाश्छादयन्तो नभस्तलम् । पक्षिराजा इवाऽऽयान्तीत्यन्योऽन्यमभिभाषिणः ॥२८५ ।। आतरङ्गादयो म्लेच्छाधिपाः कुपितविस्मिताः । वर्षन्तोऽस्त्राणि युगपत्प्रतिराम डुढौकिरे ॥२८५ ।।
॥त्रिभिर्विशेषकम् ॥ दूरापाती दृढाघाती शीघ्रवेधी च राघवः । तान् म्लेच्छान् हेलयाऽभाङ्क्षीच्छरभः कुञ्जरानिव ॥२८६ ॥ म्लेच्छाः प्रणश्य ते जग्मुः काका इव दिशो दिशि । बभूव स्वस्थो जनको जनैर्जानपदैः समम् ।। २८७ ॥ हृष्टोऽथ स्वसुतां सीतां रामाय जनको ददौ । द्वयं रामागमात्तस्य वरप्राप्तिर्जयोऽप्यभूत् ।।२८८ ॥ तदा च जानकीरूपं जनादाकर्ण्य नारदः । तत्राऽगात्कौतुकाद् द्रष्टुं कन्यावेश्म विवेश च ॥ २८९ ॥ पिङ्गकेशं पिङ्गनेत्रं तुन्दिले छत्रिकाधरम् । दण्डपाणिं सकौपीनमपीनाङ्ग स्फुरच्छिखम् ॥२९० ॥ भीषणं नारदं प्रेक्ष्यं भीता सीता सवेपथुः । हा मातरित्यारटन्ती गर्भागारान्तरेऽविशत् ।। २९१ ।।
॥युग्मम् ॥
रामम्लेच्छयोयुद्धम् ।
॥ ९९ ।।
१ आत्मानं जितं मन्यन्ते तेषु । २ शत्रुषु । ३ संहारमानिनि । ४ दूरादापततीति तथा । ५ बृहदुदरम् । ६ कृशाङ्गम् ।