________________
त्रिषष्टिशलाकापुरुषचरिते
॥९८॥
सप्तमं पर्व चतुर्थः सर्गः रामलक्ष्मणरावणचरितम् ।
जानकी
वैताह्याद्रेर्दक्षिणतः कैलासस्योत्तरेण च । सन्त्यनार्या जनपदा भूयांसो भीषणप्रजाः ।। २६५ ।। तेष्वर्धबर्बरो नाम देशो बर्बरकूलवत् । विद्यते दारुणाचारैर्नरैरत्यन्तदारुणः ।। २६६ ।। मयूरमालनगरे तस्य देशस्य भूषणे । आतरङ्गत्तमो नाम म्लेच्छराजोऽस्ति दारुणः ।। २६७ ॥ शुकमङ्कनकाम्बोजप्रभृतीन् विषयानपि । भुञ्जते तनयास्तस्य नृपीभूय सहस्रशः ।। २६८ ॥ इदानीमातरङ्गस्तैः परितः परिवारितः । अक्षय्याक्षौहिणीनाथैरभारीज्जनकक्षितिम् ॥२६९ ।। प्रतिस्थानं च चैत्यानि बभञ्जुस्ते दुराशयाः । तेषां ह्याजन्म सम्पद्भ्योऽप्यभीष्टये धर्मविप्लवः ।। २७० ॥ अनारतमभीष्टस्य धर्मस्य जनकस्य च । तत्कुरुष्व परित्राणं प्राणभूतस्तयोरसि ।। २७१ ॥ आकयेवं दशरथो यात्राभेरीमवादयत् । सन्तः सतां परित्राणे विलम्बन्ते न जातुचित् ।। २७२ ।। रामोऽथोचे दशरथं म्लेच्छोच्छेदाय चेत्स्वयम् । तातो यास्यति तद्रामः सानुजः किं करिष्यति ? ॥२७३ ।। पुत्रस्नेहाच्च तातेनाऽक्षमो वा तर्कितोऽस्म्यहम् । आ भरताज्जन्मसिद्धं नन्विक्ष्वाकुषु पौरुषम् ॥२७४ ।। प्रसीद विरम म्लेच्छानुच्छेत्तुं मां समादिश । अचिराच्छ्रोष्यसि स्वामिन् ! जयवार्ता स्वजन्मनः ।। २७५ ॥ इत्थं कथश्चिद्राजानमनुज्ञाप्य सहानुजः । सेनापरिवृतो रामो जगाम मिथिलां पुरीम् ।। २७६ ॥ चमूरुद्वीपिशार्दूलसिंहानिव महावने । पुरीपरिसरेऽद्राक्षीद्रामो म्लेच्छमहाभटान् ।। २७७ ॥ रणकण्ड्लदोर्दण्डा म्लेच्छास्ते जितकाशिनः । रामं द्रुतमुपद्रोतुं प्रावर्तन्त महौजसः ॥२७८ ।। युगपद्रामसैन्यं तैरस्त्रैरन्धीकृतं क्षणात् । महावातैरिवोद्भ्रान्तैर्जगदुत्क्षिप्तरेणुभिः ॥२७९ ॥ १ जितेन-जयेन काशन्ते-शोभन्ते इति तथा ।
जन्म,
अर्घबर्बरादि
निग्रहार्य
रामस्या
गमनम् ।
॥९८ ॥