________________
| सप्तमं पर्व
चतुर्थः
त्रिषटिशलाकापुरुषचरिते
॥१७॥
सर्गः रामलक्ष्मणरावणचरितम् ।
इतश्चाऽपहृते पुत्रे विदेहा करुणस्वरा । रुदती पातयामास बन्धून शोकमहार्णवे ॥२५० ।। जनकोऽन्वेषयामास प्रेष्य प्रतिदिशं नरान् । तत्प्रवृत्ति पुनः क्वाऽपि न प्राप सुचिरादपि ।। २५१ ।। अनेकगुणसस्यानां प्ररोहोऽत्रेति मैथिलः । दुहितुर्युग्मजातायाः सीतेति विदधेऽभिधाम् ।।२५२ ।। कालेन गच्छता शोकस्तयोर्मन्दीबभूव च । शोको हर्षश्च संसारे नरमायाति याति च ॥२५३ ।। सीता च ववृधे साध रूपलावण्यसम्पदा । इन्दुलेखेव शनकैः कलापूर्णा बभूव च ।। २५४ ।। क्रमादुद्यौवना पुण्यलावण्यलहरी सरित् । सरित्पतितनूजेव साऽलक्षि कमलेक्षणा ।। २५५ ।। अनुरूपो वरः कोऽस्या भवितेति दिवानिशम् । अचिन्तयत्तज्जनको जनकः पृथिवीपतिः ।। २५६ ।। राज्ञां कुमारान् प्रत्येकं स वीक्ष्य चरचक्षुषा । व्यचारयन् महामात्यैर्न कोऽपि रुरुचे पुनः ।। २५७ ।। तदाऽर्धबर्बरैरातरङ्गत्तमादिपार्थिवैः । दैत्यकल्पैरनल्पैर्भूर्जनकस्योपदुद्रुवे ।। २५८ ।। तेषां रोधाय कैल्पान्तवार्धिवारामिवाऽक्षमः । दूतं दशरथाहूत्यै प्राहिणोन्मिथिलेश्वरः ।। २५९ ।। ऐक्ष्वाको दूतमायातं तमाहूय ससम्भ्रमम् । सप्रसादं निषाद्याऽग्रे जगादैवं महामनाः ।। २६० ॥ तस्याऽस्मत्सुहृदो दूरस्थितस्याऽपि त्वदागमात् । मन्ये सौहार्दमद्वैतं मयीन्दाविव वारिधेः ।। २६१ ॥ कश्चिद्राष्ट्रे पुरे गोत्रे सैन्ये स्वाङ्गेऽन्यतोऽपि च । कुशलं मिथिलाभर्तुर्ब्रह्यागमनकारणम् ।। २६२ ।। दूतोऽप्यवादीन्मद्भर्तुः सत्स्वप्याप्तेष्वनेकशः । सुहृद्धृदयमात्मा वा त्वमेवाऽसि महाभुज! ।।२६३ ।। जनकस्य सुखैर्दुःखैर्यत्सदा गृह्यसे ततः । विधुरेऽद्य स्मृतस्तेन त्वं यथा कुलदेवता ।। २६४ ।। १ सरितां पतिः समुद्रस्तस्य तनूजा लक्ष्मीः । २ तत्पिता । ३ कल्पान्तसमुद्रजलानाम् । ४ उपवेश्य ।
जानकीजन्म।
॥९७ ।।