________________
सप्तमं पर्व
त्रिषष्टिशलाकापुरुषचरिते
॥९६॥
चतुर्थः सर्गः
रामलक्ष्मणरावणचरितम् ।
राज्येच्छुरेव मृत्वा स मिथिलायां महापुरि । गर्भे जनकभार्याया विदेहायाः सुतोऽभवत् ।। २३५ ॥ सरसाऽपि भवं भ्रान्त्वा पुरोहितसुताऽभवत् । नाम्ना वेगवती तत्र प्रव्रज्य च विपद्य च ।। २३६ ।। ब्रह्मलोकेऽगमच्च्युत्वा विदेहायास्तदोदरे । कुण्डलमण्डितजीवयुग्मत्वेन सुताऽभवत् ।। २३७ ।। ।। युग्मम् ।। विदेहा समयेऽसूत युगपत्पुत्रकन्यके । मृत्वा तदा पिङ्गलर्षिः सौधर्मे त्रिदशोऽभवत् ।। २३८ ।। प्राग्जन्माऽवधिनाऽपश्यद् द्विषं कुण्डलमण्डितम् । तदा जनकपुत्रत्वेनोत्पन्नं स उदैक्षत ।। २३९ ॥ स प्राग्वैराज्जातरोषो जातमात्रं जहार तम् । दध्यौ च किं निहन्म्येनमास्फाल्याऽऽशु शिलातले ? ||२४० ।। अथवा यद्भवे पूर्वे दुःकर्माऽऽचरितं मया । फलं तस्याऽपि भूयस्सु भवेष्वन्वभवं चिरम् ।। २४१ ।। दैवाच्छ्रामण्यमासाद्य प्राप्तोऽहमियती भुवम् । हत्वा भ्रूणममुं भूयः स्यामनन्तभवः कथम् ? ॥ २४२ ।। इत्थं विमृश्य स सुरो भूषणैः कुण्डलादिभिः । भूषयित्वा च तं बालं पतज्ज्योतिभ्रंमप्रदम् ।। २४३ ॥ वैताढ्यदक्षिणश्रेणौ रथनूपुरपत्तने । शनकैनन्दनोद्याने तूलिकायामिवाऽमुचत् ।। २४४ ।। ।। युग्मम् ॥ किमेतदिति सम्भ्रान्तो दृष्ट्वा चन्द्रगतिश्च तम् । तन्निपातानुसारेण नन्दनोपवनं ययौ ।। २४५ ।। ददर्श तत्र तं बालं दिव्यालङ्कारभूषितम् । विद्याधरेन्द्रः सोऽपुत्रः पुत्रीयन्नाददे स्वयम् ।। २४६ ।। प्रेयस्याः पुष्पवत्याश्चाऽर्पयामास तमर्भकम् । देव्यद्य सुषुवे पुत्रमिति चाऽघोषयत्पुरि ।। २४७ ।। उच्चैर्जन्मोत्सवं तस्य राजा पौराश्च चक्रिरे । स भामण्डलसम्बन्धान्नाम्ना भामण्डलोऽभवत् ।। २४८ ।। पुष्पवतीचन्द्रगत्योर्नेत्रकैरवचन्द्रमाः । स वर्धितुं प्रववृते खेचरीकरलालितः ।। २४९ ।। १ बालम् । २ शय्यायाम् । ३ पुत्रं कुर्वन् ।
भामण्डलोत्पत्तिवर्णनम् ।
॥९६ ।।