________________
| सप्तमं पर्व
चतुर्थः
त्रिषष्टिशलाकापुरुषचरिते
॥९५॥
|सर्गः रामलक्ष्मणरावणचरितम् ।
च्युत्वा पुरे विदग्धे स प्रकाशसिंहभूपतेः । सुतोऽभूत्प्रवरावल्यां पन्यां कुण्डलमण्डितः ।। २२१ ।। भोगासक्तः कयानोऽपि चिरं भ्रान्त्वा भवाटवीम् । पुरे चक्रपुरे चक्रध्वजराजपुरोधसः ।। २२२ ।। धूमकेशाभिधानस्य स्वाहानाम्न्यामजायत । सूनुः सधर्मचारिण्यां नामधेयेन पिङ्गलः ।। २२३ ।।
॥युग्मम् ।। राज्ञश्चक्रध्वजस्याऽतिसुन्दरीनामया सह । पुत्र्या पपाठैकगुरोरन्तिके स तु पिङ्गलः ।। २२४ ।। कालेन गच्छता जाते त्वनुरागे परस्परम् । तां छलात् पिङ्गलो हृत्वा विदग्धनगरे ययौ ।। २२५ ।। विज्ञानरहितस्तत्र तृणकाष्ठादिविक्रयात् । आत्मानमजिजीवत्स निर्गुणस्योचितं ह्यदः ।। २२६ ।। तां चाऽतिसुन्दरी तत्राऽद्राक्षीत् कुण्डलमण्डितः । अन्योऽन्यमनुरागश्च तत्कालमभवत्तयोः ॥ २२७ ।। अपजहे च तां राजपुत्रः कुण्डलमण्डितः । पितुर्भिया दुर्गदेशे पल्लीं कृत्वा च संस्थितः ।। २२८ ।। विरहाच्चाऽतिसुन्दर्या उन्मत्त इव पिङ्गलः । क्ष्मां भ्रमन्नेकदाऽऽचार्यगुप्ताख्यमैक्षत ।। २२९ ।। श्रुत्वा धर्मं च तत्पार्थे व्रतं जग्राह पिङ्गलः । परं प्रेमाऽतिसुन्दर्यां न मुमोच कदाचन ।। २३० ।। पल्लीस्थितो दशरथभुवं कुण्डलमण्डितः । सर्वदा लुण्टयामास सारमेय इव च्छलात् ।। २३१ ।। सामन्तो बालचन्द्राख्यस्ततो दशरथाज्ञया । प्रदाय सौप्तिकं बद्ध्वा तमानैषीत्तदन्तिके ।। २३२ ॥ कालेन तं दशरथोऽमुचत्कुण्डलमण्डितम् । कोपः शाम्यति महतां दीने क्षीणे ह्यरावपि ।। २३३ ॥ पितृराज्याय स भ्राम्यन्महीं कुण्डलमण्डितः । मुनिचन्द्रान्मुनेर्धर्ममाकर्ण्य श्रावकोऽभवत् ।। २३४ ।। १ आजीविकामकरोत ।
भामण्डलोत्पत्तिवर्णनम् ।
।।९५ ।।