________________
| सप्तमं पर्व
चतुर्थः
त्रिषष्टिशलाकापुरुषचरिते
॥१४॥
सर्गः रामलक्ष्मणरावणचरितम् ।
स्नेहाद्भरतशत्रुघ्नाववियुक्तौ दिवानिशम् । बलदेववासुदेवावभातामपराविव ।।२०६ ।। रेजे राजा दशरथश्चतुर्भिरपि तैः सुतैः । गजदन्ताकृतिनगैरिव मेरुमहीधरः ।। २०७॥ इतश्च जम्बूद्वीपेऽस्मिन् क्षेत्रे चाऽत्रैव भारते । दारुग्रामे वसुभूतिरिति नाम्नाऽभवद् द्विजः ।। २०८ ।। पल्यां तस्याऽनुकोशायामतिभूतिरभूत्सूतः । अतिभूतेरपि पत्नी बभूव सरसाभिधा ।। २०९ ।। कयाननाम्ना विप्रेण जातरागेण सैकदा । अपजहे च्छलेनाऽशु किं न कुर्यात्स्मरातुरः ? || २१० ॥ तामन्वेष्टुं महीमाटाऽतिभूतिभूतवद्धृशम् । सुतस्नुषार्थेऽनुकोशावसुभूती च चेरतुः ।। २११ ।। सुतस्नुषे अपश्यन्तौ पर्यटन्तावथाऽन्यदा । एकं ददृशतुः साधुं ववन्दाते च भक्तितः ।। २१२ ॥ श्रुतधौ च तत्पाधै तौ द्वौ जगृहतुव्रतम् । गुर्वादियऽनुकोशाऽगादार्यिकां कमलश्रियम् ।। २१३ ॥ तौ विपद्य च सौधर्मे कल्पे देवो बभूवतुः । व्रते ह्येकाहमात्रेऽपि न स्वर्गादन्यतो गतिः ।। २१४ ।। वसुभूतिस्ततश्च्युत्वाऽत्रैव वैताठ्यपर्वते । रथनूपुरनाथोऽभून्नाम्ना चन्द्रगतिर्नृपः ।। २१५ ॥ ततश्व्युत्वाऽनुकोशाऽपि तस्य विद्याधरप्रभोः । अभूत्पुष्पवती नाम भार्याऽऽर्यचरिता सती ।। २१६ ॥ तदा च साऽपि सरसा कामपि प्रेक्ष्य संयंताम् । प्रव्रज्य मृत्वा चेशाने देवी समुदपद्यत ।। २१७ ।। सरसाविरहादार्तोऽतिभूतिश्च विपद्य सः । चिरं भ्रान्त्वा च संसारं हंसपोतः कदाऽप्यभूत् ।। २१८ ॥ भक्ष्यमाणोऽन्यदा श्येनेनोपसाधु पपात सः । कण्ठस्थासोनमस्कारं तस्य साधुर्ददौ च सः ॥२१९ ।। विपन्नः स नमस्कारप्रभावेणाऽतिभूयसा । दशवर्षसहस्रायुः किन्नरेषु सुरोऽभवत् ।। २२० ।। १ गजदन्ताकारपर्वतैः । २ साध्वीम् । ३ कण्ठस्थप्राणस्य ।
भरतलक्ष्मणशत्रुघ्नादीनामुत्पत्तिः; विप्रेण सरसाहरणम् ।
॥९४ ॥