________________
A
त्रिषष्टिशलाकापुरुषचरिते ।। ९३ ॥
सप्तमं पर्व चतुर्थः सर्गः रामलक्ष्मणरावणचरितम् ।
रामजन्मनि भूपालो यथाऽकृत महोत्सवम् । तथा तमधिकं चक्रे हर्षे को नाम तप्यति ? || १९१ ।। नाम नारायण इति विदधे तस्य पार्थिवः । स लक्ष्मण इति ख्यातोऽपरनाम्ना च भव्यभूत् ।। १९२ ।। तौ द्वावपि पितुः कूर्चकचाकर्षणशिक्षकम् । विशिष्टं प्रापतुर्बाल्यं क्रमेण क्षीरपायिणौ ।।१९३ ।। धात्रीभिर्लाल्यमानौ तावपश्यत्परया मुदा । मुहुर्मुहुर्महीपालः स्वदोर्दण्डाविवाऽपरौ ।। १९४ ॥ सञ्चेरतुः सदस्यानामङ्कादत महीभुजाम् । तेषामङ्गेषु वर्षन्तौ तौ स्पर्शेन सुधामिव ।। १९५ ॥ क्रमेण तौ वर्धमानौ नीलपीताम्बरौ सदा । विजहतुः पादपातैः कम्पयन्तौ महीतलम् ।। १९६ ।। कलयामासतुस्तौ तु क्रमेण सकलाः कलाः । साक्षीकृतकलाचार्यों पुण्यराशी इवाऽङ्गिनौ ।। १९७॥ लीलामुष्टिप्रहारेण हिमकर्परलीलया । दलयामासतुस्तौ च गिरीनपि महौजसौ ।। १९८ ।। श्रमस्थानेऽपि हि तयोरधिज्यीकृतचापयोः । चकम्पे तेपनोऽप्युच्चस्तस्थौ वेधाभिशङ्कया ।। १९९ ।। तृणाय मन्यमानौ तौ दोःस्थाम्नाऽपि द्विषां बलम् । कौतुकायैव मेनाते शस्त्रकौशलमात्मनः ॥ २०० ।। शस्त्रास्त्रकौशलेनोच्चैर्दोःस्थाम्ना च तयोर्नृपः । अपि देवासुरादीनां स्वमजय्यममन्यत ॥२०१ ॥ अन्यदा धैर्यमालम्ब्य विक्रमेण कुमारयोः । इक्ष्वाकूणां राजधानीमयोध्यां नृपतिर्ययौ ॥२०२ ।। अभ्रात्यय इवाऽऽदित्यो दुर्दशातिक्रमे भृशम् । द्योतमानः प्रतापेन महीं दशरथोऽन्वशात् ।। २०३ ।। तत्राऽपरेधुः कैकेयी शुभस्वप्नाभिसूचितम् । असूत भरतं नाम सुतं भरतभूषणम् ।। २०४ ।। शत्रुघ्नमभिधानेन शत्रुघ्नभुजविक्रमम् । अजीजनत्सुप्रभाऽपि नन्दनं कुलनन्दनम् ।। २०५ ।। १ श्मश्रुकेशाकर्षणे शिक्षकम् । २ सभ्यानाम् । ३ चरणघातैः । ४ हिमपात्रस्य लीलया । ५ सूर्यः । ६ मेघनिरासे ।
ASARASHRSHRSHASHRSHASHASABHASHA
| भरतलक्ष्मणशत्रुघ्नादीनामुत्पत्तिः ।
॥९३ ।।