________________
त्रिषष्टि
शलाका
पुरुषचरिते
॥९२ ॥
ब्रह्मलोकात्परिच्युत्य तथा देवो महर्द्धिकः । कुक्षाववातरत्तस्याः पुष्करिण्यां मरालवत् ।। १७६ ॥ नृपुण्डरीकं वर्णेन पुण्डरीकविडम्बिनम् । सम्पूर्णलक्षणं सूनुं सुषुवेऽथाऽपराजिता ।। १७७ ।। प्रथमापत्यरत्नस्य तस्याऽऽस्यकमलेक्षणात् । राकेन्दुदर्शनादब्धिरिवाऽतिमुमुदे नृपः ।। १७८ ।। नृपश्चिन्तामणिरिव ददौ दानं तदाऽर्थिनाम् । लोकस्थितिरियं जाते नन्दने दानमक्षयम् ।। १७९ ।। महान्तमुत्सवं चक्रुस्तदा लोकास्तथा स्वयम् । यथाऽभूवन्नेतिमुदो राज्ञो दशरथादपि ।। १८० ।। नृपौकसि सैनाथानि दुर्वापुष्पफलादिभिः । निन्युः कल्याणपात्राणि पूर्णपात्राणि नागराः ।। १८१ ।। सर्वत्र कलगीतानि सर्वत्र घुसृणच्छटाः । सर्वत्र तोरणश्रेण्यो व्यधीयन्त तदा पुरि ।। १८२ ॥ अचिन्तितोपनीतानि प्राभृतानि महीभृताम् । तदा राज्ञे समाजग्मुस्तस्य सूनोः प्रभावतः ।। १८३ ॥ पद्मानिवाससद्मस्य पद्म इत्यभिधां नृपः । सूनोस्तस्याऽकरोत् सोऽभूत्प्रथितो राम इत्यपि ॥ १८४ ।। गजसिंहार्कचन्द्राग्निश्रीसमुद्रान्निशात्यये । स्वप्नेऽपश्यत् सुमित्राऽपि विष्णुजन्माभिसूचकान् ।। १८५ ॥ देवलोकात् परिच्युत्य त्रिदशः परमर्द्धिकः । तदा देव्याः सुमित्राया उदरे समवातरत् ।। १८६ ॥ समये प्रावृडम्भोदवर्णं सम्पूर्णलक्षणम् । सुमित्राऽपि जगन्मित्रं पुत्ररत्नमजीजनत् ॥ १८७ ॥ पुरचैत्येषु सर्वेषु श्रीमतामर्हतां तदा । विशेषेणाऽष्टधा पूजां स्नात्रपूर्वं व्यधान्नृपः ॥ १८८ ॥ नृपतिर्मोचयामास धृतान् बन्दिरिपूनपि । को वा न जीवति सुखं पुरुषोत्तमजन्मनि ॥ १८९ ॥ सोच्छ्वासः सप्रजो राजा न केवलभूत्तदा । वसुर्मत्यपि देवी द्रागुच्छ्वासं प्रत्यपद्यत ।। १९० ।।
१ जनेषु पुण्डरीकसमानम् । २ अतिहर्षवन्तः । ३ सहितानि । ४ कुङ्कुमच्छटाः । ५ लक्ष्म्या निवासे कमलसदृशस्य । ६ मही ।
सप्तमं पर्व
चतुर्थः
सर्गः
रामलक्ष्मणरावणचरितम् |
कैकेय्यैवरदानदानम्, रामोत्पत्तिश्च ।
।। ९२ ।।