________________
त्रिषष्टि
शलाका
पुरुषचरिते ॥९१॥
महीपतिः शुभमतिः पक्षे दशरथस्य सः । सन्ननाह महोत्साहः सेनया चतुरङ्गया ।। १६१ ।। कुरु प्रिये ! सारथित्वं यथा मथ्नाम्यमून् द्विषः । इत्यवोचत कैकेयीं तदैकाकी हि राघवः ।। १६२ ।। कैकेयी रश्मिमादायाऽध्यारुरोह महारथम् । द्वासप्ततावपि कलास्वभिज्ञा सा हि धीमती ।। १६३ ॥ धन्वी निषङ्गी सन्नाही राज दशरथोऽपि तम् । अध्यास्त रथमेकोऽपि तृणवद् गणयन् परान् ॥ १६४ ।। हरिवाहणमुख्यानां रथैर्निजरथं रयात् । प्रत्येकं युगपदिव त्वेका कैकेय्ययोजयत् ।। १६५ ।। शीघ्रवेधी दशरथोऽप्येकैकममि तान् रथान् । अखण्डयदखण्डौजा आखण्डल इवाऽपरः ।। १६६ ।। इत्थं विद्रावयामास सर्वानपि स भूपतीन् । उपयेमे च कैकेयीं जगतीमिव जङ्गमाम् ॥ १६७ ॥ उवाच च नवोढां तां राजा दशरथो रथी । वरं याचस्व देवि ! त्वत्सारथ्येनाऽस्मि रञ्जितः ।। १६८ ।। याचिष्ये समये स्वामिन् ! न्यासीभूतोऽस्तु मे वरः । इत्यभाषत कैकेयी राजाऽपि प्रत्यपादि तत् ।। १६९ ।। समं श्रियेव कैकेय्या परसैन्यैर्हठाहृतैः । असङ्ख्यातपरीवारो राजा राजगृहं ययौ ।। १७० ।। जगाम राजा जनकोऽप्यात्मीयां नगरीमथ । समयज्ञा हि धीमन्तो न तिष्ठन्ति यथा तथा ।। १७१ ।। राजा दशरथस्त विजित्य मगधेश्वरम् । तत्रैवाऽस्थान्न तु ययावयोध्यां शङ्कया तया ॥ १७२ ॥ तत्राऽपराजितामुख्यमन्तःपुरमिलापतिः । निजमानाययामास राज्यं सर्वत्र दोष्मताम् ।। १७३ ।। राज्ञीभी रममाणोऽस्थात्पुरे तत्र चिरं नृपः । विशेषतः प्रीतये हि राज्ञां भूः स्वयमर्जिता ॥ १७४ ॥ अथाऽपराजिताऽन्येद्युर्गजसिंहेन्दुभास्करान् । स्वप्नेऽपश्यन्निशाशेषे बलजन्माभिसूचकान् ।। १७५ ।। १ बलादानीतः । २ पृथ्वीपतिः ।
सप्तमं पर्व
चतुर्थः
सर्गः
रामलक्ष्मणरावण
चरितम् ।
कैकेय्यैवरदानदानम् ।
॥ ९१ ॥