________________
| सप्तमं पर्व चतुर्थः
त्रिषष्टिशलाकापुरुषचरिते
॥१०॥
सर्गः रामलक्ष्मणरावणचरितम् ।
बिभीषणश्च संरम्भादेत्य सन्तमसेऽसिना । लेपमय्या दशरथमूर्तेश्चिच्छेद मस्तकम् ।। १४६ ॥ जज्ञे कलकलस्तत्र नगरे सकलेऽपि हि । आक्रन्दध्वनिरुत्तस्थावन्तरन्तःपुरं महान् ।। १४७ ।। सन्नह्य समधावन्त सामन्ताः साङ्गरक्षकाः । विदधुर्मृतकार्याणि गूढमन्त्राश्च मन्त्रिणः ॥१४८ ॥ मृतं दशरथं ज्ञाला ययौ लङ्क बिभीषणः । अकिञ्चित्करमेकं तु नाऽवधीन्मिथिलेश्वरम् ।। १४९ ।। मिथश्च मैथिलैक्ष्वाको भ्राम्यन्तौ मिलितावुभौ । एकावस्थौ सुहृदौ तावुत्तरापथमीयतुः ।। १५० ।। राज्ञः शुभमतेस्तत्र पुरे कौतुकमङ्गले । दुहितुः कैकेयीनाम्न्याः पृथ्वीश्रीकुक्षिजन्मनः ।। १५१ ।। द्रोणमेघसोदराया द्वासप्ततिकलानिधेः । तौ स्वयंवरमाकर्ण्य तन्मण्डपमुपेयतुः ।। १५२ ।। ।। युग्मम् ॥ हरिवाहणमुख्यानां तौ मध्ये पृथिवीभुजाम् । हंसाविवाऽधिपाथोजमधिमञ्चं निषेदतुः ।। १५३ ।। कैकेयी कन्यकारत्नं रत्नालङ्कारभूषिता । साक्षालक्ष्मीरिवाऽभ्यागात्तं स्वयंवरमण्डपम् ।। १५४ ।। दत्तहस्ता प्रतीहार्या पश्यन्ती सा नृपान् क्रमात् । नक्षत्राणीन्दुलेखेव व्यतिचक्राम भूयसः ।। १५५ ।। क्रमेण सा दशरथं प्राप गङ्गेव सागरम् । तस्थौ तत्रैव निर्मुक्तनाङ्गरा नौरिवाऽम्भसि ।।१५६ ॥ सद्यो रोमाञ्चिततनुः कैकेय्यतेनुसम्मुदा । तत्राऽक्षिपद्वरमालां निजां भुजलतामिव ।। १५७ ।। हरिवाहणमुख्याश्च नृपा न्य॑क्कृतमानिनः । मानिनो जज्वलुः क्रोधाज्ज्वलज्ज्वलनसन्निभाः ॥१५८ ॥ अयं वराक एकाकी वव्रे कार्पटिकोऽनया । आच्छिद्यमानामस्माभिरिमिकां त्रास्यते कथम् ? ।। १५९ ।। साटोपमिति जल्पन्तोऽनल्पं स्वशिबिरेषु ते । गत्वा संवर्मयामासुः सर्वे सर्वात्मनाऽपि हि ।।१६०॥ १ गाढतमसि । २ पङ्कजे । ३ अतिहर्षेण । ४ तिरस्कृतं आत्मानं मन्यन्ते इति । ५ इमामेवेमिकाम् ।
नारदेन दशरथजनकयोः सर्ववृत्तान्त कथनम्, विभीषणस्य भ्रमः ।
॥९०॥