________________
त्रिषष्टिशलाकापुरुषचरिते ||८९॥
सप्तमं पर्व चतुर्थः सर्गः रामलक्ष्मणरावणचरितम् ।
बिभीषणो बभाषेऽथ यदप्यस्य सदा ऋतम् । वचस्तथाऽपि ह्यनृतीकरिष्यामि तदाश्वहम् ॥ १३१ ।। जनकं दशरथं च कन्यातनययोस्तयोः । अनर्थयोर्बीजभूतं हनिष्याम्यस्तु नः शिवम् ।। १३२ ॥ उत्पत्तिरेव हि तयोनिषिद्धा बीजनाशतः । वचो नैमित्तिकस्याऽतो मिथ्यैव हि भविष्यति ।। १३३ ।। आमेत्युक्तो रावणेन स्ववेश्माऽगाद् बिभीषणः । तत्रस्थो नारदस्तच्च श्रुत्वा दशरथं ययौ ।। १३४ ।। तं देवर्षि दशरथोऽभ्युत्तस्थौ दूरतोऽपि हि । नमस्कृत्याऽऽसयामास गुरुवद्गौरवेण च ।। १३५ ।। त्वमायासीः कुतः स्थानात्पृष्टस्तेनेति नारदः । आख्यत्पूर्वविदेहेषु गतोऽहं पुण्डरीकिणीम् ।। १३६ ।। श्रीसीमन्धरनाथस्य द्रष्टुं निष्क्रमणोत्सवम् । सुरासुरकृतं तं च दृष्ट्वा मेरुमगामहम् ।। १३७ ॥ तत्राऽभिवन्द्य तीर्थेशान् लङ्कायां गतवानहम् । तस्यां शान्तिगृहे शान्तिं नत्वाऽगां रावणालयम् ॥१३८ । रावणस्य वधस्तत्र जानक्यर्थे त्वदात्मजात् । नैमित्तिकेन केनाऽपि कथ्यमानः श्रुतो मया ॥१३९ ।। श्रुत्वा बिभीषणस्तच्च हन्तुं त्वां जनकं तथा । कृतप्रतिज्ञो न चिरादिहैष्यति महाभुजः ।। १४० ।। एतत्सर्वं परिज्ञाय लक्षापुर्याः ससम्भ्रमः । साधर्मिक इति प्रीत्या तव शंसितुमागमम् ।। १४१ ।। तच्छ्रुत्वा भूभुजाऽभ्यर्च्य विसृथे नारदो द्रुतम् । तथैव कथयामास जनकायाऽपि भूभुजे ।। १४२ ।। मन्त्रिणां तत्समाख्याय राजा राज्यं समर्प्य च । निर्ययौ योगविदिव चिकीर्षुः कालवञ्चनाम् ।। १४३ ।। मूर्ति दाशरथीं लेप्यमयीमन्तपालयम् । न्यधुश्च मन्त्रिणो ध्वान्ते विद्विषन्मोहहेतवे । १४४ ।। जनकोऽपि तथा चक्रे तथा तन्मत्रिणोऽपि हि । तौ त्वलक्षौ दशरथजनकौ भ्रमतुर्महीम् ।। १४५ ।।
दशरथजनकयो
महीभ्रमणम् ।
॥८९ ।।
१ सत्यम् ।