________________
सप्तमं पर्व
त्रिषष्टिशलाकापुरुषचरिते
॥८८॥
चतुर्थः
सर्गः रामलक्ष्मणरावणचरितम् ।
तत्र स्वामिनि लोकस्य परचक्रादिसम्भवः । अदृष्टपूर्व एवाऽऽसीत् खपुष्पवदुपद्रवः ।।११८ ।। स वित्ताभरणादीनि यथेच्छं दददर्थिनाम् । कल्पद्रुमाणां मद्याङ्गादीनामेकादशोऽभवत् ।। ११९ ॥ निजवंशक्रमायातं तत्साम्राज्यमिवाऽनघम् । स दधावार्हतं धर्म सर्वदाऽप्यप्रमद्वरः ।। १२० ॥ दभ्रस्थलपुरेशस्य सुकोशलमहीपतेः । कन्यां पवित्राममृतप्रभाकुक्षिसमुद्भवाम् ।। १२१ ।। नाम्नाऽपराजितां चारुरूपलावण्यशालिनीम् । उदुवाह स भूपालो जयश्रियमिवाऽऽहवे ॥१२२ ।।
॥युग्मम् ॥ सुबन्धुतिलकस्याऽथ पुरे कमलसकुले । मित्रादेवीकुक्षिजातां कैकेयीमादिनामतः ।। १२३ ।। मित्राभूः सुशीला चेति सुमित्रेत्यपराभिधाम् । पर्यणैषीद्दशरथः शशाङ्क इव रोहिणीम् ।। १२४ ।।
॥युग्मम् ।। पुण्यलावण्यसौन्दर्यवर्याङ्गीसुप्रभाभिधाम् । अन्यामप्युपयेमे स राजपुत्रीमनिन्दिताम् ।। १२५ ॥ सुखं वैषयिकं ताभिर्बुभुजे भूभुजां वरः । अबाधमानो धर्मार्थो स विवेकशिरोमणिः ।। १२६ ॥ इतश्च भरतस्याऽधं भुजानो दशकन्धरः । सभायामास्थितोऽपृच्छदिति नैमित्तिकोत्तमम् ।। १२७ ।। अमरा अपि नाम्नवाऽमरा न परमार्थतः । भाव्यवश्यं तु सर्वस्य मृत्युः संसारवर्तिनः ।। १२८ ॥ तत्कि मे स्वपरीणामाद्विपत्तिः परतोऽथवा ? | तन्ममाऽऽचक्ष्व निःशङ्कमाप्ता हि स्फुटभाषिणः ।। १२९ ।। सोऽप्याचख्यौ भविष्यन्त्या जानक्याः कारणेन ते । भविष्यतो दशरथपुत्रान्मृत्युभविष्यति ।। १३०॥ १ मद्यानादीनि दश नामानि कल्पवृक्षाणाम् ।
| सोदासस्य
दीक्षा,
दशरयोत्पत्तिः।
॥८८॥