________________
त्रिषष्टिशलाकापुरुषचरिते
॥८७॥
सप्तमं पर्व चतुर्थः सर्ग: रामलक्ष्मणरावणचरितम् ।
दूतः सिंहरथेनोच्चैस्तिरस्कृत्य विसृज्यत । आगत्याऽऽख्यच्च सोदासभूभुजे स यथातथम् ।। १०३ ।। सोदासोऽथ सिंहरथं सोऽपि सोदासपार्थिवम् । अभ्यषेणयतां योद्धं युयुधाते च तौ मिथः ॥ १०४ ॥ सोदासोऽपि सिंहरथं जित्वा जग्राह पाणिना । तस्मै राज्यद्वयं चाऽदात्प्रवव्राज स्वयं पुनः ॥१०५ ।। सूनुः सिंहरथस्याऽभूद्राजा ब्रह्मरथस्ततः । चतुर्मुखस्ततो हेमरथः शतरथस्ततः ॥ १०६ ॥ अथोदयपृथुरिरथ इन्दुरथस्ततः । आदित्यरथमान्धातृवीरसेनास्ततः क्रमात् ।। १०७ ॥ प्रतिमन्युनृपस्तस्मात्प्रतिबन्धुनृपस्ततः । रविमन्युनृपस्तस्माद्वसन्ततिलकस्ततः ।। १०८ ।। कुबेरदत्तोऽथ कुन्थुशरभद्विरदाः क्रमात् । ततश्च सिंहदशनो हिरण्यकशिपुस्ततः ।।१०९ ॥ पुनस्थलः ककुस्थोऽथ रघुरेवं नृपेषु तु । केषुचिन्मोक्षमाप्तेषु स्वर्गमाप्तेषु केषुचित् ।। ११० ॥ अनरण्यो नाम राजा शरण्यः शरणार्थिनाम् । आनृण्यकृत्प्रणयिनामभूत्साकेतपत्तने ।। १११ ॥ तस्याऽभूतामुभौ पुत्रौ पृथ्वीदेव्याश्च कुक्षिजौ । एकोऽनन्तरथो नाम्ना तथा दशरथोऽपरः ॥ ११२ ।। इतोऽनरण्यस्य सुहृत्सहस्रकिरणो नृपः । रावणेन जितो युद्धे वैराग्याद् व्रतमाददे ॥११३ ॥ तत्सख्यादनरण्योऽपि श्रियं न्यस्य लघौ सुते । मासजातेऽनन्तरथसहितो व्रतमाददे ॥११४ अनरण्योऽगमन्मोक्षमथाऽनन्तरथो मुनिः । तप्यमानस्तपस्तीव्र विजहार वसुन्धराम् ।।११५ ॥ राज्यभृत्क्षीरकण्ठोऽपि राजा दशरथः पुनः । वयसा विक्रमेणैव वृद्धिमासादयत् क्रमात् ।। ११६ ।। राजा राजसु सोऽराजद् द्विजराज इवोडुषु । ग्रहेष्विव ग्रेहराजः सुमेरुः पर्वतेष्विव ।। ११७ ॥ १ चन्द्रः ।२ सूर्यः ।
सोदासस्य | दीक्षा, दशरथोत्पत्तिः ।
।। ८७ ॥