________________
त्रिषष्टिशलाका
सप्तमं पर्व चतुर्थः सर्गः
पुरुषचरिते
॥८६॥
रामलक्ष्मणरावण
चरितम् ।
सोदासोऽप्यवदत्सूदं सदा मांसादनप्रियः । प्रच्छन्नं मांसमादेयं त्वयाऽवश्यमतः परम् ।। ८८ ॥ सूदोऽप्यमार्यां घुष्टायां मांसं न प्राप कुत्रचित् । न ह्यसत्प्राप्यते क्वाऽपि केनाऽप्याकाशपुष्पवत् ।। ८९ ॥ मांसाप्राप्तिरित इतो राजाज्ञा बाधते च माम् । किं करोमीति विमृशन् सूदोऽपश्यन्मृतार्भकम् ।। ९० ॥ मृतार्भकस्य तस्यैवाऽऽदाय मांसंस वल्लवः । संस्कृत्य तैस्तैर्विज्ञानैः सोदासाय ददौ तदा ।। ९१ ॥ सोदासोऽपि हि तन्मांसमश्नन्नेवमवर्णयत् । अहो ! अमुष्य मांसस्य कोऽप्यतिप्रीणको रसः ।। ९२ ।। सूपकारं च पप्रच्छ जन्मापूर्वमिदं मम । कस्य जीवविशेषस्य मांसमाख्याहि सर्वथा ।। ९३ ॥ नृमांसमिति सोऽप्याख्यद्राजाऽवोचदतः परम् । अद्येव दद्याः संस्कृत्य प्रत्यहं नृपलं मम ।। ९४ ।। डिम्भान् सूदोऽप्यथाऽहार्षीत्तदर्थं प्रत्यहं पुरे । न हि भीराज्ञया राज्ञामन्यायकरणेऽपि हि ।। ९५ ।। इति दारुणकर्माणं नृपं विज्ञाय मन्त्रिणः । धृत्वाऽत्यजन्नरण्यान्तर्गुहोत्पन्नमिवोरगम् ॥ ९६ ॥ तैश्च सोदाससूः सिंहरथो राज्येऽभ्यषिच्यत । सोदासोऽप्याट वसुधां मांसं खादन्निरर्गलः ॥९७ ॥ सोदासेनाऽपि चाऽन्येधुर्धमता दक्षिणापथे । महर्षिः कोऽपि ददृशे सोऽथ धर्ममपृच्छयत ।। ९८ ॥ बोधार्ह इति तं ज्ञात्वा जगौ तस्मै महामुनिः । मद्यमांसपरीहारप्रधानं धर्ममार्हतम् ॥ ९९ ।। सोदासोऽपि हि तं धर्ममाकर्ण्य चकितोऽभवत् । प्रसन्नहृदयो भूत्वा श्रावकः परमोऽभवत् ।। १००॥ इतो महापुरपुरे कोऽप्यपुत्रो नृपो मृतः । पञ्चदिव्याभिषिक्तोऽथ ५, सस्तत्र राडभूत् ।। १०१ ॥ सोदासः प्राहिणोद् दूतमथ सिंहरथं प्रति । सोदासस्य कुरुष्वाऽऽज्ञामिति दूतोऽप्युवाच तम् ॥ १०२ ॥ १ सूदः ।२ मनुष्यमांसम् ।
सिंहिकाया असतीत्वशक्का, तन्नाशश्व; सोदासस्य मांसभक्षणम् ।
॥८६ ॥