________________
सप्तमं पर्व
त्रिषष्टिशलाकापुरुषचरिते
॥८५॥
चतुर्थः
सर्गः रामलक्ष्मणरावणचरितम् ।
नाऽस्तीह नघुष इति दक्षिणापथभूभुजः । तदाऽयोध्यां रुरुधिरे छलनिष्ठा हि वैरिणः ॥७३ ॥ तदा च सिंहिका देवी पुंवत्तानभ्यषणयत् । जिगायाऽनाशयच्चाऽऽशु किं सिंही हन्ति न द्विपान् ? |७४ ।। जित्वोत्तरापथं राजा नघुषश्चाऽऽगतोऽन्यदा । शुश्राव च जयोदन्तं पल्या दध्याविदं च सः ॥७५ ॥ स्पष्टधाय॑मिदं कर्म दुष्करं मादृशामपि । महाकुलप्रसूतानां महिलानां न युज्यते ।। ७६ ॥ तन्नूनमसती सेयं सत्यो हि पतिदेवताः । पतिसेवां विना नाऽन्यज्जानते क्वेदृशं पुनः ॥७७ ।। इति चेतसि निश्चित्य सिंहिकां प्रेयसीमपि । राजा परिजहाराऽऽशु न्यगित्तप्रतिमामिव ।। ७८ ॥ नघुषस्याऽन्यदा दाहज्वरः समुदपद्यत । दुधरिवन्न चाऽशाम्यदुपचारशतैरपि ।। ७९ ।। स्वसतीत्वं ज्ञापनाय भर्तुरर्तिच्छिदेऽपि च । तत्समीपं तदेयाय तोयमादाय सिंहिका ।। ८० । सा सत्यश्रावणं चक्रे त्वां विना नाथ ! चेन्मया । पुमान्नैक्षि कदाऽप्यन्यो ज्वरस्तदपयातु ते ॥८१ ॥ ततश्च साऽम्भसा तेनाऽभिषिषेच निजं पतिम् । तदैव स ज्वरोन्मुक्तः सुधाधौत इवाऽभवत् ।। ८२ ॥ सिंहिकाया उपरिष्टात् पुष्पवृष्टिं सुरा व्यधुः । राजाऽपि बहु मेने तां ततः प्रभृति पूर्ववत् ।। ८३ ।। काले गच्छति जज्ञे च नघुषस्य महीपतेः । सिंहिकायां महादेव्यां सोदासो नाम नन्दनः ।। ८४ ॥ सोदासे राज्यमारोप्याऽपरेधुनघुषो नृपः । एकमौपयिकं सिद्धेः परिव्रज्यामुपाददे ॥ ८५ ॥ सोदासनृपते राज्येऽर्हतामष्टाह्निकोत्सवे । मन्त्रिणो घोषयामासुरमारिं पूर्वराज्यवत् ।। ८६ ।। सोदासमपि ते प्रोचुरर्हदधतिकोत्सवे । नाऽखादि मांसं त्वत्पूर्वैः खादीस्त्वमपि मा स्म तत् ।। ८७ ।। १ खण्डितां प्रतिमामिव । २ सत्यस्य श्रावणं ।
| सिंहिकाया असतीत्वशङ्का ।
॥८५ ॥