________________
त्रिषष्टिशलाका
पुरुषचरिते ॥ ८४ ॥
आपतन्त्यामपि व्याघ्रयां तौ क्षमाश्रमणोत्तमौ । धर्मध्यानं प्रपेदानौ कायोत्सर्गेण तस्थतुः ॥ ५८ ॥ सा तु व्याघ्री विद्युदिव पपाताऽऽदौ सुकोशले । दूरापातप्रहारेण पृथ्व्यां च तमपातयत् ॥ ५९ ॥ चटच्चटिति तच्चर्म दारं दारं नखाङ्कुशैः । पापा साऽपादतृप्ताऽश्रं वारीव मरुपान्थिका ।। ६० ।। त्रोटयित्वा त्रोटयित्वा त्रणत्त्रटिति सा रदैः । जग्रसे मांसमपि हि वालुङ्कमिव रङ्किका ।। ६१ ।। दन्तयन्त्रातिथीचक्रे कर्केश कीकसान्यपि । कटत्कटिति कुर्वन्ती सेक्षूनिव मतङ्गजी ।। ६२ ॥ कर्मक्षयसहायेयमिति मम्लौ मुनिर्न सः । विशेषतस्त्वभूदुच्चावचरोमाञ्चकञ्चुकः ।। ६३ ।। व्याघ्रयैवं खाद्यमानोऽपि शुक्लध्यानमुपेयिवान् । तत्कालोत्केवलो मोक्षं सुकोशलमुनिर्ययौ ॥ ६४ ॥ मुनिः कीर्तिधरः सोऽपि समुत्पादितकेवलः । क्रमादासादयामास सुखाद्वैतास्पदं पदम् ।। ६५ ।। इतश्च चित्रमालाऽपि सुकोशलनृपप्रिया । हिरण्यगर्भं सुषुवे नन्दनं कुलनन्दनम् ॥ ६६ ॥ आगर्भवासनृपतेस्तस्य प्राप्तस्य यौवनम् । सधर्मचारिण्यभवन्मृगनेत्रा मृगावती ॥ ६७ ॥ राज्ञो हिरण्यगर्भस्य मृगावत्यामजायत । तनयो नघुषो नाम वपुषा स इवाऽपरः ।। ६८ ।। हिरण्यगर्भः स्वेऽपश्यन्मौलौ पलितमन्यदा । तृतीयवयसः सत्यङ्काराभमुपसर्पतः ।। ६९ ।। तदैव जातवैराग्यः स राजा नघुषं सुतम् । स्वे राज्ये न्यस्य विमलमुन्यन्ते व्रतमग्रहीत् ॥ ७० ॥ घुषस्य नृसिंहस्य सिंहिका नाम पल्यभूत् । तया च रममाणः स पैतृकं राज्यमन्वशात् ॥ ७१ ॥ उत्तरापथभूपालान्नघुषो जेतुमन्यदा । जगाम सिंहिकां देवीं निजराज्ये मुमोच च ॥ ७२ ॥
१ दारयित्वा दारयित्वा । २ अतृप्ता सा अश्रं - रुधिरं अपाद्-अपिबदित्यन्वयः । ३ दन्तैः । ४ कठोरा । ५ तत्कालमुत्पन्नं केवलज्ञानं यः ।
सप्तमं पर्व
चतुर्थः
सर्गः
रामलक्ष्मणरावण
चरितम् ।
सहदेव्या
स्वपुत्रपत्योर्हनम्,
तयो मोक्षः, नघुषस्य राज्यप्राप्तिः ।
।। ८४ ।।