________________
सप्तमं पर्व चतुर्थः
त्रिषष्टिशलाकापुरुषचरिते
।८३।।
सर्गः रामलक्ष्मणरावणचरितम् ।
इत्यन्यलिङ्गिभिः सार्धं तं राज्ञी निरवासयत् । लोभाभिभूतमनसां विवेकः स्यात्कियच्चिरम् ।। ४३ ॥ धात्री सुकोशलस्याऽथ स्वामिनं व्रतधारिणम् । पुरान्निर्वासितं ज्ञात्वा रोदिति स्म निरर्गलम् ।। ४४ ।। किं रोदिषीति पप्रच्छ सुकोशलनृपोऽपि ताम् । कथयामास साऽप्येवमक्षरैः शोकगद्गदैः ॥ ४५ ॥ राज्ये त्वां बालकं न्यस्य तव कीर्तिधरः पिता । प्राब्राजीत् सोऽद्य भिक्षार्थ प्राविक्षदिह पत्तने ।। ४६ ।। तद्दर्शनात्तवाऽप्यद्य व्रतग्रहणशङ्कया । निर्वासितः स ते मात्रा दुःखेनाऽनेन रोदिमि ।। ४७ ।। सुकोशलोऽपि तच्छ्रुत्वा गत्वा च पितुरन्तिके । बद्धाञ्जलिर्विरक्तात्मा तस्माद् व्रतमयाचत ।। ४८ ।। चित्रमाला च तत्पत्नी गुर्व्यत्य सह मन्त्रिभिः । उवाचाऽस्वामिकं स्वामिन् ! न राज्यं त्यक्तुमर्हसि ।। ४९ ॥ राजाऽप्यवोचद्गर्भस्थोऽपि हि सूनुर्मया तव । राज्येऽभिषिक्तो भाविन्यप्युपचारो हि भूतवत् ।। ५० ।। इत्युक्त्वा सकलं लोकं सम्भाष्य पितुरन्तिके ।सुकोशलः प्रवव्राज तपस्तेपे च दुस्तपम् ।। ५१ ।। निर्ममौ निःकषायौ तौ पितापुत्रौ महामुनी । विजहूतुर्युतावेव पावयन्तौ महीतलम् ।। ५२ ।। तनयस्य वियोगेन खेदभाक् सहदेव्यपि । आर्तध्यानपरा मृत्वा व्याघ्रयभूगिरिगह्वरे ।। ५३ ।। इतश्च तौ कीर्तिधरसुकोशलमहामुनी । प्रावृटकालचतुर्मासीमत्येतुं दान्तमानसौ ।।५४ ।। निःस्पृहौ स्वशरीरेऽपि स्वाध्यायध्यानतत्परौ । गिरेगुहायामेकस्य तस्थतुः सुस्थिताकृती ।। ५५ ।। ।युग्मम् ।। सम्प्राप्ते कार्तिक मासि प्रयान्तौ पारणाय तौ । दृथै मार्गे तया व्याघ्रया यमदूत्येव दुष्टया ॥५६ ।। सा व्याघ्री शीघ्रमभितो दधावे स्फारितानना । दूरादभ्यागमस्तुल्यो दुहृदां सुहृदामपि ॥५७ ॥
सहदेव्या स्वपुत्रपत्योर्हनम् ।
॥८३ ॥
१ व्यात्तमुखा।