________________
| सप्तमं पर्व
त्रिषष्टिशलाकापुरुषचरिते
॥८२॥
चतुर्थः |सर्गः रामलक्ष्मणरावण|चरितम् ।
वज्रबाहुं प्रव्रजितं श्रुत्वा विजयभूपतिः । वरं बालोऽप्यसौ नाऽहमिति वैराग्यमासदत् ॥ २८ ॥ ततश्च विजयः पुत्र राज्ये न्यस्य पुरन्दरम् । निर्वाणमोहस्य मुनेः पार्थे व्रतमुपाददे ।। २९ ॥ पुरन्दरोऽपि स्वे राज्ये पृथिवीकुक्षिजं सुतम् । न्यस्य कीर्तिधरं क्षेमङ्करर्ण्यन्तेऽभवद्यतिः ॥३०॥ अथ कीर्तिधरो राजाऽभुत वैषयिकं सुखम् । सहदेव्या समं पल्या पौलोम्येव पुरन्दरः ।।३१ ॥ प्रविव्रजिषुरन्येधुः स मन्त्रिभिरभण्यत । तवाऽनुत्पन्नपुत्रस्य न व्रतादानमर्हति ।। ३२ ।। त्वय्यपुत्रे व्रतभाजि निर्नाथेयं वसुन्धरा । तत्प्रतीक्षस्व यावत्ते स्वामिन्नुत्पद्यते सुतः ॥ ३३ ॥ ततः कीर्तिधरस्याऽपि तथैव गुहवासिनः । काले गच्छत्यभूत्पुत्रः सहदेव्यां सुकोशलः ॥ ३४ ॥ ज्ञात्वा जातमिमं बालं पतिर्मे प्रव्रजिष्यति । सहदेवीति बुद्ध्या तं जातमात्रमगोपयत् ।।३५ ।। विवेद मेदिनीनाथस्तं गुप्तमपि बालकम् । प्राप्तोदयं हि तरणिं तिरोधातुं क ईश्वरः ? ।। ३६ ।। राजाऽथ स्वार्थकुशलो राज्ये न्यस्य सुकोशलम् । सूरेर्विजयसेनस्य पादान्ते व्रतमाददे ।। ३७ ॥ तप्यमानस्तपस्तीव्र सहमानः परीषहान् । स्वगुर्वनुज्ञयैकाकिविहारेणाऽन्यतो ययौ ॥ ३८ ॥ साकेतमन्यदा मासोपवासी पारणेच्छया । स आजगाम भिक्षार्थ मध्याह्ने तत्र चाऽभ्रमत् ।।३९ ॥ सौधाग्रस्था सहदेवी तं च दृष्ट्वेत्यचिन्तयत् । पत्यौ प्रव्रजितेऽमुष्मिन् पतिहीना पुराऽभवम् ।। ४० ॥ वत्सः सुकोशलोऽप्यद्य दृष्ट्वैनं प्रव्रजेद्यदि । तदा पुत्रोऽपि पे न स्यान्निर्वीरा स्यां ततः परम् ।। ४१ ।। तस्मान्निरपराधोऽपि भर्ताऽपि व्रतधार्यपि । निर्वास्यो नगरात्सूनो राज्यस्थेमचिकीर्षया ।। ४२ ॥ १ सूर्यम् ।
|स्त्रीश्यालाभ्यां सह वज्रबाहोर्दीक्षा। मासोपवास पारणार्थ कीर्तिधवलस्यात्रागमनम् ।
॥८२ ।।