________________
त्रिषष्टिशलाकापुरुषचरिते
॥८१॥
सप्तमं पर्व चतुर्थः सर्गः रामलक्ष्मणरावणचरितम् ।
उवाच चैवमुदयसुन्दरोऽथ कुमार ! किम् । आदित्ससे परिव्रज्यां ? सोऽवदच्चित्तमस्ति मे ॥ १३ ॥ उदयो नर्मणा भूयः प्रोचे यद्यस्ति ते मनः । तदद्य मा विलम्बस्व सहायोऽहमपीह ते ॥ १४ ॥ कुमारो व्याजहारैवं मर्यादामिव वारिधिः । मा त्याक्षीः स्वामिमां सन्धां सोऽप्योमेवेत्यभाषत ॥ १५ ॥ कुमारो वाहनान्मोहादिवोत्तीर्याऽऽरुरोह तम् । वसन्तशैलमुदयसुन्दरादिभिरावृतः ।। १६ ॥ वज्रबाहुमथाऽवादीदिभवाहननन्दनः । स्वामिन्मा प्रव्राजीरद्य धिग्मे नाभिभाषणम् ।। १७ ॥ नर्मोक्तिरावयोरासीत् को दोषस्तद्व्यतिक्रमे । नर्मोक्तिर्न हि सत्यैव प्राया धवलगीतवत् ॥ १८ ॥ भविष्यसि सहायस्त्वं व्यसनेष्वखिलेष्वपि । इत्यकाण्डेऽपि मा भाङ्क्षीरस्मत्कुलमनोरथान् ॥ १९ ॥ इदमद्याऽपि माङ्गल्यं तव हस्तेऽस्ति कङ्कणम् । तद्विवाहफलं भोगान् सहसा कथमुज्झसि ? ॥२०॥ सांसारिकसुखास्वादवञ्चितेयं मनोरमा । जीविष्यति कथं नाथ ! त्वया तृणवदुज्झिता ? ||२१ ।। वज्रबाहुकुमारोऽथ जगादोदयसुन्दरम् । सुन्दरं मर्त्यजन्मद्रोः फलं चारित्रलक्षणम् ॥ २२ ॥ नर्मोक्तिरपि तेऽस्मासु बभूव परमार्थसात् । शुक्तिषु स्वातिजीमूतवारि मौक्तिकसादिव ॥ २३ ॥ त्वत्स्वसा च कुलीना चेत्तत्प्रव्रज्यां ग्रहीष्यति । नो चेदस्याः शिवः पन्था भोगैः पुनरलं मम ||२४ ।। तद् व्रतायाऽनुमन्यस्व मां त्वमप्यनुयाहि नः । कुलधर्मः क्षत्रियाणां स्वसन्धापालनं खलु ॥ २५ ॥ उदयं प्रतिबोध्यैवं वज्रबाहुरुपाययौ । सागरं गुणरत्नानां महर्षि गुणसागरम् ॥२६॥ तत्पादान्ते वज्रबाहुः परिव्रज्यामुपाददे । उदयो मनोरमाऽथ कुमाराः पञ्चविंशतिः ॥ २७ ॥ १ सर्वपरमार्थरूपा ।
वज्रबाहु| प्रव्रज्या।
॥८१ ॥