________________
चतुर्थः सर्गः ।
SHRISHASHA
| सप्तमं पर्व
त्रिषष्टिशलाकापुरुषचरिते ।।८०॥
चतुर्थः
| सर्गः रामलक्ष्मणरावणचरितम् ।
S
इतश्च मिथिलापुर्या हरिवंशे महीपतिः । आसीद्वासवकत्वाख्यो विपुला तस्य च प्रिया ॥१॥ तयोः सूनुरनूनश्रीर्बभूव भुवि विश्रुतः । प्रजानां जनक इव जनको नाम पार्थिवः ॥२॥ इतश्च पुर्ययोध्यायामृषभस्वामिराज्यतः । इक्ष्वाकुवंशान्तर्भूताऽऽदित्यवंशेषु राजसु ॥३॥ यातेषु केषुचिन्मोक्षं स्वर्ग यातेषु केषुचित् । सङ्ख्यातीतेषु विंशस्याऽर्हतस्तीर्थे प्रसर्पति ।। ४ ।। बभूव विजयो राजा हिमचूला च तप्रिया । तयोरभूतां द्वौ पुत्रौ वज्रबाहुपुरन्दरौ ॥५॥ ॥ त्रिभिर्विशेषकम् ।। इतश्चाऽभून्नागपुरे पुरे राजेभवाहनः । चूडामणिश्च तत्पत्नी तत्पुत्री च मनोरमा ।। ६ ।। गत्वोद्यद्यौवनां वज्रबाहुः परिणिनाय ताम् । महेन महता श्वेतमरीचिरिव रोहिणीम् ॥७॥ भक्त्या च श्यालेनोदयसुन्दरेणाऽनुगामिना । मनोरमामथाऽऽदाय प्रतस्थे स्वपुराय सः ॥ ८ ॥ स गच्छन्नन्तराऽपश्यत्तपस्तेजोभिरीश्वरम् । वसन्ताद्रिस्थमुदयाचलस्थमिव भास्करम् ॥९॥ मोक्षाध्वमीक्षकमिवोत्पश्यमातापनापरम् । गुणसागरनामानं तपस्यन्तं महामुनिम् ।। १० ।।
॥युग्मम् ॥ मयूर इव जीमूतं तं दृष्ट्वा जातसम्मदः । कुमार इदमाह स्म धृत्वा सपदि वाहनम् ।। ११ ।। अहो ! महात्मा कोऽप्येष वन्द्य एव महामुनिः । चिन्तामणिरिव मया दृष्टः पुण्येन भूयसा ॥ १२ ॥ १ महोत्सवेन । २ चन्द्रः । ३ ऊर्ध्वं द्रधरम् । ४ जातहर्षः ।
हनुमतः सत्यवत्यादिना लग्नः जनक दशरथयोरुत्पत्तिः ।
ABHARASHRSHASHRSS
॥८०
॥